Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 684
________________ योगशास्त्रम् ।। ३३३ ।। Jain Education Inter *UK+-*-- देश परिहारेणार्यदेशो मगधादिः । ततोऽप्यार्यदेशप्राप्तावपि जातिः अन्त्यजादिपरिहारेणोत्तमजातिः, जात्या कुलमुपलक्ष्यते । जातिकुलप्राप्तावपि सर्वाक्षपाटवमहीनपञ्चेन्द्रियता । तत्र सर्वाक्षपाटवेऽपि दीर्घमायुः कथञ्चित्कर्मलाघवात् शुभस्य कर्मणो लाघवात् अपचयात्, उपलक्षणात् पुण्यस्योपचयाच्च प्राप्यते, न ह्यल्पायुः किञ्चनैहिकामुष्मिकं वा कार्यं कर्तुं शक्तः, भगवन्तोऽपि वीतरागा " हे आयुष्मन् ! गौतम ! " इत्यादि वदन्तो दीर्घायुष्कं ( ) सर्वगुणेभ्योऽधिकमाचचक्षिरे || १०८ ॥ तथा — प्राप्तेषु पुण्यतः श्रद्धाकथकश्रवणेष्वपि । तत्त्वनिश्चयरूपं तदोधिरत्नं सुदुर्लभम् ॥ १०६ ॥ K For Personal & Private Use Only चतुर्थः प्रकाशः । पुण्यतः कर्मलाघवलक्षणात् शुभकर्मोदयलक्षणाच्च प्राप्तेष्वासादितेषु । केषु १ इत्याह श्रद्धा धर्माभिलाषः, थको धर्मोपदेष्टा गुरुः, श्रवणं तद्वचनाकर्णनं, एतेषु सत्स्वपि । तदिति प्रसिद्धं, बोधिरत्नं सुदुर्लभं, बोधिस्तु तत्त्वनिश्चयः तत्त्वस्य देवगुरुधर्मरूपस्य निश्चयो दृढोऽभिनिवेशः, तदेव रूपं यस्य तत् तत्त्वनिश्चयरूपं । स्थावरत्वात्रसत्वादीन्यपि दुर्लभानि, तेभ्योऽपि वोधिरत्नं दुर्लभमिति सुशब्देनाह । यतो मिथ्यादृशोऽपि सत्वादीनि श्रवणान्तान्यनन्तशः प्राप्नुवन्ति, बोधिरत्नं तु न लभन्ते, तच्चाविघ्नं मोक्षतरुबीजमिति । अत्रान्तरश्लोकाः राज्यं वा चक्रभृत्त्वं वा शक्रत्वं वा न दुर्लभम् । यथा जिनप्रवचने बोधिरत्यन्तदुर्लभा ॥ १ ॥ सर्वे भावाः सर्वजीवैः प्राप्तपूर्वा अनन्तशः । बोधिर्न जातुचित्प्राप्ता भव भ्रमणदर्शनात् || २ || पुद्गलानां परावर्तेष्वनन्तेषु गतेष्विह । उपार्धपुद्गलावर्ते शेषे सर्वशरीरिणाम् || ३ ॥ सर्वेषां कर्मणां शेषे कोटिकोटयन्तरस्थितौ । ग्रन्थिभेदात् कश्चिदेव लभते बोधिमुत्तमाम् ||४|| यथाप्रवृत्तिकरणादन्ये तु ग्रन्थिसीमनि । प्राप्ता अप्यवसीदन्ति भ्रमन्ति च पुनर्भवम् ॥ ५ ॥ | ।। ३३३ ।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786