Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 756
________________ योग शास्त्रम् ।। ३ अष्टमः प्रकाशः। | अथवा नाभिकन्दाधः पद्ममष्टदलं स्मरेत् । स्वरालीकेसरं रम्यं वर्गाष्टकयुतैर्दलेः ॥ ६ ॥ दलसन्धिषु सर्वेषु सिद्धस्तुतिविराजितम् । दलापु समग्रेषु मायाप्रणवपावितम् ॥ ७॥ तस्यान्तरन्तिमं वर्णमाद्यवर्णपुरस्कृतम् । रेफाकान्तं कलाबिन्दरम्यं प्रालेयनिर्मलम ॥ अर्हमित्यक्षरं प्राणप्रान्तसंस्पर्शि पावनम् । ह्रस्वं दीर्घ प्लुतं सूक्ष्ममतिसूक्ष्म ततः परम् ॥९॥ ग्रन्थीन् विदारयन्नाभिकन्दहृघण्टिकादिकान्। सुसूक्ष्मध्वनिना मध्गमार्गयायि स्मरेत्ततः १०. अथ तस्यान्तरात्मानं प्लाव्यमानं विचिन्तयेत्। बिन्दुतप्तकलानिर्यक्षीरगौरामतोर्मिभिः ॥११॥ तत: सुधासर:सूतषोडशाब्जदलोदरे । प्रात्मानं न्यस्य पत्रेषु विद्यादेवीश्च षोडश ॥ १२ ॥ स्फुटस्फटिकभृङ्गारक्षरत्क्षीरसितामृतैः। श्राभिराप्लाव्यमानं स्वं चिरं चित्ते विचिन्तयेत्॥१३॥ अथास्य मन्त्रराजस्याभिधेयं परमेष्टिनम् । अर्हन्तं मूर्धनि ध्यायेत् शुद्धस्फटिकनिर्मलम्॥१४॥ तध्यानावेशतः सोऽहं सोऽहमित्यालपन्मुहुः। निःशङ्कमेकतां विद्यादात्मनः परमात्मना ॥१५॥ ततो नीरागमद्वेषममोहं सर्वदर्शिनम् । सुराय॑ समवस्मृतौ कुर्वाणं धर्मदेशनाम् ॥ १६॥ ध्यायन्नात्मानमेवेत्थमभिन्नं परमात्मना । लभते परमात्मत्वं ध्यानी निर्धतकल्मषः॥१७॥ 3881 Jain Education international For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786