Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 778
________________ योग एकादशः प्रकाशः। शास्त्रम् ।।३८०॥ तेयविसेसेण सुहासवादोणुत्तरामरसुहं च । दोण्हं सुकाण फलं परिनिव्वाणं परिल्लाणं ॥ २॥१॥ शुक्लध्यानस्याधिकारिणं निरूपयतिइदमादिमसंहनना एवालं पूर्ववेदिनः कर्तुम्। स्थिरतां न याति चित्तं कथमपि यत्स्वल्पसत्त्वानाम्। आदिमं वज्रर्षभनाराचसंहननं येषां ते तथा। सकलश्रुतात् पूर्व प्रणयनात् पूर्वाणि तानि विदन्तीत्येवंशीलाः | पूर्ववेदिनः पूर्वधराः । इदं च प्रायिक, माषतुषमरुदेव्यादीनामपूर्वधराणामपि शुक्लध्यानसंभवात् । आदिमसंहनना इत्यस्य स्थिरतामित्यादिना हेतुरुक्तः॥२॥ इदमेव भावयति धत्ते न खलु स्वास्थ्यं व्याकुलितं तनुमतां मनोविषयैः । शुक्लध्याने तस्मान्नास्त्यधिकारोऽल्पसाराणाम् ॥३॥ स्पष्टम् । यदाहछिन्ने भिन्ने हते दग्धे देहे स्वमपि दरगम् । प्रपश्यन् वर्षवातादिदुःखैरपि न कम्पते ॥१॥ न पश्यति तदा किश्चिन्न शृणोति न जिघ्रति । स्पष्टं किश्चिन्न जानाति लेप्यनिर्वृत्तमूर्तिवत् ॥२॥ इति ॥३॥ ननु यद्यादिमसंहननानां शुक्लध्यानेऽधिकारस्तहीदानी सेवार्तसंहननानां पुरुषाणां शुक्लध्यानोपदेशे कोऽवसरः ? इत्याह तेजोविशेषेण सुखास्वादतोऽनुत्तरामरसुखं च । द्वयोः शुक्लयोः फलं परिनिर्वाण परयोः ॥ २ ॥ ||३८०॥ Jain Education Intel For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 776 777 778 779 780 781 782 783 784 785 786