Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 781
________________ तृतीयभेदं व्याचष्टे निर्वाणगमनसमये केवलिनो दरनिरुद्धयोगस्य । सूक्ष्मक्रियाप्रतिपाति तृतीयं कीर्तितं शुक्लम् ॥८॥ निर्वाणगमनसमये मोक्षगमनप्रत्यासन्नसमये केवलिनः सर्वज्ञस्य मनोयोगवाग्योगद्वये निरुद्धे सति बादरे च काययोगे निरुद्धे सूक्ष्मा उच्छासनिश्वासादिका कायक्रिया यत्र तत्तथा । अप्रतिपाति अनिवर्ति । दरशन्दः प्राकृतवत् संस्कृतेऽपि दृश्यते, यथा-" दरदलितहरिद्राग्रन्थिगौरं शरीरम्" (इत्यादी)॥८॥ चतुर्थ भेदं व्याचष्टेकेवलिनः शैलेशीगतस्य शैलवदकम्पनीयस्य । उत्सन्नक्रियमप्रतिपाति तुरीयं परमशुक्लम् ॥ ___ स्पष्टः ।। ६ ॥ चतुर्षपि योगसङ्ख्यां निरूपयतिएकत्रियोगभाजामाद्यस्यादपरमेकयोगानाम्।तनुयोगिनां तृतीयं निर्योगाणां चतुर्थं तु॥१०॥ ___ पाद्यं पृथक्त्ववितर्क सविचारं मनःप्रभृत्येकयोगभाजां योगत्रयभाजां वा, तच्च भङ्गिकश्रुतपाठकानां भवति। अपरमेकत्ववितर्कमविचारं मनःप्रभृत्यन्यतरैकयोगानां, योगान्तरे संक्रमाभावात् । तृतीयं सूक्ष्मक्रियमनिवर्ति तत तनुयोगे काययोगे सूक्ष्मे, न तु योगान्तरे । चतुर्थ व्युत्सन्नक्रियमप्रतिपाति निर्योगाणामयोगिकेवलिनां शैलेशीगतानां भवति । योगस्तु कायवाग्मनोभेदात्रिविधः। तत्रौदारिकवैक्रियाहारकतैजसकार्मणशरीरवतो जीवस्य in Education inte For Personel Private Use Only

Loading...

Page Navigation
1 ... 779 780 781 782 783 784 785 786