Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 772
________________ योग शास्त्रम् ॥३७७॥ Jain Education Intern --****-20k -18-13+ सर्वज्ञवचनं सूक्ष्मं हन्यते यन्न हेतुभिः । तदाज्ञारूपमादेयं न मृषाभाषिणो जिनाः ॥ ९ ॥ स्पष्टः । अत्रान्तरश्लोकाः श्राज्ञा स्यादाप्तवचनं सा द्विधैव व्यवस्थिता | आगमः प्रथमा तावद्धेतुवादोऽपरा पुनः ॥ १ ॥ शब्दादेव पदार्थानां प्रतिपत्तिकृदागमः । प्रमाणान्तरसंवादाद्धेतुवादो निगद्यते ॥ २ ॥ द्वयोरप्यनयोस्तुल्यं प्रामाण्यमविगानतः । अदुष्टकारणारब्धं प्रमाणमिति लचणात् || ३ || दोषा रागद्वेषमोहाः संभवन्ति न तेऽर्हति । अदुष्टहेतुसंभूतं तत्प्रमाणं वचोऽर्हताम् ॥ ४ ॥ नयप्रमाणसंसिद्धं पूर्वापर्याविरोधि च । श्रप्रतिक्षेप्यमरैर्बलिष्ठैरपि शासनैः || ५ || अङ्गोपाङ्गप्रकीर्णादिबहुभेदापगाम्बुधिम् । अनेकातिशयप्राज्यसाम्राज्यश्रीविभूषितम् || ६ || दुर्लभं दूरभव्यानां भव्यानां सुलभं भृशम् । गणिपिटकतयोच्चैर्नित्यं स्तुत्यं नरामरैः ॥ ७ ॥ एवमाज्ञां समालम्ब्य स्थाद्वादन्याययोगतः । द्रव्यपर्यायरूपेण नित्यानित्येषु वस्तुषु ||८|| स्वरूपपररूपाभ्यां सदसद्रूपशालिषु । यः स्थिरः प्रत्ययो ध्यानं तदाज्ञाविचयाह्वयम् ॥ ६ ॥ ९ ॥ थापायविचयमाह - रागद्वेष कषायाद्यैर्जायमानान् विचिन्तयेत् । यत्रापायांस्तदपायविचयध्यानमिष्यते ॥१०॥ रागद्वेषजनितानामपायानां विचयो विचिन्तनं यत्र तदपायविचयम् ॥ १० ॥ तस्य फलमाह - ऐहिकामुष्मिक पाय परिहारपरायणः । ततः प्रतिनिवर्तेत समन्तात् पापकर्मणः ॥ ११ ॥ For Personal & Private Use Only 本 ---*--.. दशमः प्रकाशः । ॥ ३७७ ॥ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786