Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 774
________________ योगशास्त्रम् दशमः प्रकाश:। ॥३७॥ च्छुभः । स्मशानजाङ्गलारण्यप्रभृतावशुभः पुनः ॥ ३ ॥ काले त्वशीतलानुष्णे वसन्तादौ रतेः शुभः । उष्णे शीते | ग्रीष्मे हेमन्तादौ भ्रमणतोऽशुभः ॥ ४ ॥ मनःप्रसादसन्तोषादिभावेषु शुभो भवेत् । क्रोधाहङ्काररौद्रत्वादिभावेप्वशुभः पुनः॥५॥ सुदेवत्वभोगभूमिमनुष्यादिभवे शुभः। कुमर्त्यतिर्यङ्नरकादिभवेष्वशुभः पुनः ॥६॥ अपिचउदयक्षयक्षयोपशमोपशमाः कर्मणां भवन्त्यत्र । द्रव्यं क्षेत्रं कालं भावं च भवं च संप्राप्य ॥७॥ इति द्रव्यादिसामग्रीयोगात्कर्माणि देहिनाम् । स्खं स्वं फलं प्रयच्छन्ति तानि त्वष्टैव तद्यथा ॥८॥ जन्तोः सर्वत्ररूपस्य ज्ञानमात्रियते सदा । येन चक्षुःपटेनेव ज्ञानावरणकर्म तत् ।। ६॥ मतिश्रुतावधिमनःपर्यायाः केवलं तथा । बदाब्रियन्ते ज्ञानानीत्येतज्ज्ञानावृतेः फलम् ॥ १०॥ पञ्चनिद्रा दर्शनानां चतुष्कखावृतिश्च या । दर्शनावरणीयस्य विपाकः कर्मणः स तु ॥ ११ ॥ यथा दिदृक्षुः स्वाम्यत्र प्रतीहारनिरोधतः। न पश्यति स्वमप्येवं दर्शनावरणोदयात् ॥ १२॥ मधुलिप्तासिधारामास्वादाभं वेद्यकर्म यत् । सुखदुःखानुभवनस्वभावं परिकीर्तितम् ॥ १३ ॥ सुरापाणसमं प्राज्ञा मोहनीयं प्रचक्षते । यदनेन विमूढात्मा कृत्याकृत्येषु मुह्यति ॥ १४॥ तत्रापि दृष्टिमोहाख्यं त मिथ्यादृष्टिविपाककृत् । चारित्रमोहनीयं तु विरतेः प्रतिषेधनम् ॥ १५॥ नृतिर्यङ्नारकामर्त्यभेदादायुश्चतुर्विधम् । स्वस्वजन्मनि जन्तूनां धारकं गुप्तिसन्निभम् ॥ १६॥ गतिजात्यादिवैचित्र्यकारि चित्रकरोपमम् । नामकर्मविपाको. ऽस्य शरीरेषु शरीरिणाम् ।। १७ ॥ उच्चैनींचैर्भवेद्गोत्रं कर्मोचैर्नीचगोत्रकृत् । क्षीरभाण्डसुराभाण्डभेदकारि कुलालवत् ॥ १८॥ दानादिलब्धयो येन न फलन्ति विबाधिताः। तदन्तरायं कर्म स्याद्भाण्डागारिकसन्निभम् ॥ १६ ॥ इति मूलप्रकृतीनां विपाकास्तान विचिन्वतः। विपाकविचयं नाम धर्मध्यानं प्रवर्तते ॥ २०॥ १३ ॥ ॥३७८॥ in Education inte For Personal & Private Use Only

Loading...

Page Navigation
1 ... 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786