Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 775
________________ अथ संस्थानविचयमाहअनाद्यन्तस्य लोकस्य स्थित्युत्पत्तिव्ययात्मनः।प्राकृतिं चिन्तयेद्यत्र संस्थानविचय:सतु॥१४॥ लोकशन्देन लोकस्तद्गतानि च पित्यादीनि द्रव्याणि परिगृह्यन्ते । शेषं स्पष्टम् ॥ १४ ॥ लोकभ्यानस्य फलमाहनानाद्रव्यगतानन्तपर्यायपरिवर्तनात् । सदा सक्तं मनो नैव रागाद्याकुलतां व्रजेत् ॥ १५ ॥ स्पष्टः । अत्रान्तरश्लोकाः संस्थानविचयो लोकभावनायां प्रपश्चितः। तन्नेह वर्ण्यते भूयः पुनरुक्तत्वभीरुभिः ॥१॥ अथ लोकभावनायाः संस्थानविचयस्य च । को नाम भेदो येनोभौ विमित्रौ परिकीर्तितौ ॥२॥ उक्तमेतद्यथा चिन्तामात्रकं लोकभावना । स्थिरा तु लोकादिमतिः संस्थानध्यानमुच्यते ॥३॥१५॥ धर्मध्यानस्यैव स्वरूपविशेषमाहधर्मध्याने भवेद्भावः क्षायोपशमिकादिकः। लेश्या:क्रमविशुद्धाः स्युः पीतपद्मसिताः पुनः॥१६॥ क्षायोपशमिकादिक इत्यादिग्रहणादौपशमिकस्य चायिकस्य च ग्रहणम्, न त्वौदयिकस्य । यदाहधर्म्यमप्रमत्तसंयतस्य उपशान्तक्षीणकषाययोश्च । धर्मध्याने च क्रमेण विशुद्धास्तिस्रो लेश्या भवन्ति, तद्यथापीतलेश्या, ततो विशुद्धा पबलेश्या, ततोऽपि विशुद्धतरा शुक्ललेश्यति ॥ १६ ॥ Jain Education inten For Personal & Private Use Only Jaww.jainelibrary.org

Loading...

Page Navigation
1 ... 773 774 775 776 777 778 779 780 781 782 783 784 785 786