Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 768
________________ योगशास्त्रम् ॥अथ नवमः प्रकाशः ॥६ नवमः प्रकाश: ॥३७॥ ओं अहं । अथ रूपस्थं ध्येयं सप्तभिः श्लोकैराहमोक्षश्रीसम्मुखीनस्य विश्वस्ताखिलकर्मणः। चतुर्मुखस्य निःशेषभुवनाभयदायिनः॥१॥ इन्दुमण्डलसंकाशच्छत्रत्रितयशालिनः । लसद्भामण्डलाभोगविडम्बितविवस्वतः ॥२॥ दिव्यदुन्दुभिनिर्घोषगीतसाम्राज्यसंपदः । रणद्विरेफझङ्कारमुखराशोकशोभिनः ॥३॥ सिंहासननिषमस्य वीज्यमानस्य चामरैः । सुरासुरशिरोरत्नदीप्रपादनखद्युतेः ॥४॥ दिव्यपुष्पोत्कराकीर्णासङ्कीर्णपरिषद्भुवः । उत्कन्धरैर्मृगकुलैः पीयमानकलध्वनेः ॥ ५॥ शान्तवैरेभसिंहादिसमुपासितसन्निधेः । प्रभोः समवसरणस्थितस्य परमेष्ठिनः ॥६॥ सर्वातिशययुक्तस्य केवलज्ञानभास्वतः । अर्हतो रूपमालम्ब्य ध्यानं रूपस्थमुच्यते॥७॥ स्पष्टाः ॥ १-७॥ प्रकारान्तरेण रूपस्यं ध्येयं त्रिभिः श्लोकैराहरागद्वेषमहामोहविकारैरकलङ्कितम् । शान्तं कान्तं मनोहारि सर्वलक्षणलक्षितम् ॥८॥ in Education in For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786