Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 769
________________ Jain Education Intern ← 7.0K++ 03-08-0 तीर्थिकैरपरिज्ञातयोगमुद्रामनोरमम् । श्रक्ष्णोरमन्दमानन्दनिः स्यन्दं दददद्भुतम् ॥ ९ ॥ जिनेन्द्रप्रतिमारूपमपि निर्मलमानसः । निर्निमेषदृशा ध्यायन् रूपस्थध्यानवान् भवेत् ॥१०॥ स्पष्टाः ॥ ८-१० ॥ ततश्च योगी चाभ्यासयोगेन तन्मयत्वमुपागतः । सर्वज्ञीभूतमात्मानमवलोकयति स्फुटम् ॥ ११ ॥ सर्वज्ञो भगवान् योऽयमहमेवास्मि स ध्रुवम् । एवं तन्मयतां यातः सर्ववेदीति मन्यते ॥ १२ ॥ स्पष्टौ ।। ११-१२ ।। कथमित्याह- वीतरागो विमुच्येत वीतरागं विचिन्तयन्। रागिणं तु समालम्ब्य रागी स्यात्क्षोभणादिकृत् ॥ १३ ॥ स्पष्टः ।। १३ ।। उक्तं च येन येन हि भावेन युज्यते यन्त्रवाहकः । तेन तन्मयतां याति विश्वरूपो मणिर्यथा ॥ १४ ॥ स्पष्टः ॥ १४ ॥ एवं सध्ध्यानमुक्त्वाऽसध्ध्यानं निराकुर्वन्नाह - नासध्यानानि सेव्यानि कौतुकेनापि किन्त्विह । स्वनाशायैव जायन्ते सेव्यमानानि तानि यत् ॥१५॥ स्पष्टः ।। १५ ।। कुतः ? - For Personal & Private Use Only *-*@*•-•**********@*********@ www.jainelibrary.org

Loading...

Page Navigation
1 ... 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786