Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 757
________________ स्पष्टाः ॥६-१७ ॥ पुनरपि प्रकारान्तरेण पदमयी देवतां पञ्चभिः श्लोकैराहयद्वा मन्त्राधिपं धीमानूर्वाधोरेफसंयुतम् । कलाबिन्दुसमाकान्तमनाहतयुतं तथा ॥ १८ ॥ कनकाम्भोजगर्भस्थं सान्द्रचन्द्रांशुनिर्मलम्। गगने संचरन्तंचव्याप्नुवन्तं दिशः स्मरेत् ॥१९॥ ततो विशन्तं वक्त्राब्जे भ्रमन्तं भूलतान्तरे। स्फुरन्तं नेत्रपत्रेषु तिष्ठन्तं भालमण्डले ॥२०॥ निर्यान्तं तालुरन्ध्रेण स्रवन्तं च सुधारसम् । स्पर्धमानं शशाङ्केन स्फुरन्तं ज्योतिरन्तरे ॥२१॥ संचरन्तं नभोभागे योजयन्तं शिवश्रिया । सर्वावयवसंपूर्ण कुम्भकेन विचिन्तयेत् ॥ २२ ॥ ____ अहं । स्पष्टाः । यदाहुः-" अकारादि हकारान्तं रेफमध्यं सबिन्दुकम् । तदेव परमं तत्त्वं यो जानाति स | तत्त्ववित् ॥ १॥" इति ॥ १८-२२॥ __ मन्त्रराजस्य ध्याने फलमाहमहातत्त्वमिदं योगी यदैव ध्यायति स्थिरः। तदैवानन्दसंपद्भर्मुक्तिश्रीरुपतिष्ठते ॥ २३ ॥ ___ स्पष्टः ॥ २३ ॥ अनन्तरविधिमाह| रेफबिन्दुकलाहीनं शुभ्रं ध्यायेत्ततोऽक्षरम् । ततोऽनक्षरतां प्राप्तमनुच्चार्य विचिन्तयेत् ॥२४॥ स्पष्टः ॥ २४ ॥ ततः in Education Internal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786