Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 755
________________ । अथाष्टमः प्रकाशः।८ ओं अहं ॥ अथ पदस्थस्य ध्येयस्य लक्षणमाहयत्पदानि पवित्राणि समालम्व्य विधीयते । तत्पदस्थं समाख्यातं ध्यानं सिद्धान्तपारगैः ॥१॥ स्पष्टः॥१॥ विशेष त्रिभिः श्लोकैराहतत्र षोडशपत्राढथे नाभिकन्दगतेऽम्बुजे । स्वरमालां यथापत्रं भ्रमन्तीं परिचिन्तयेत् ॥२॥ चतुर्विंशतिपत्रं च हृदि पद्मं सकर्णिकम् । वर्णान् यथाक्रमं तत्र चिन्तयेत् पञ्चविंशतिम् ॥३॥ वक्त्राब्जेऽष्टदले वर्णाष्टकमन्यत्ततः स्मरेत् । संस्मरन्मातृकामेवं स्याच्छुतज्ञानपारगः ॥४॥ ___स्पष्टाः ॥२-४॥ अस्य फलमाहध्यायतोऽनादिसंसिद्धान् वर्णानेतान् यथाविधि। नष्टादिविषये ज्ञानं ध्यातुरुत्पद्यते क्षणात्॥५॥ स्पष्टः । उक्तं च-" जापाजयेत्क्षयमरोचकमग्निमान्यं, कुष्ठोदरास्मकसनश्वसनादिरोगान् । प्रामोति चाप्रतिमवाग्महतीं महद्भ्यः , पूजां परत्र च गतिं पुरुषोत्तमाप्ताम् ॥ १॥" इति ॥ ५॥ प्रकारान्तरेण पदमयीं देवतां ध्येयतया द्वादशभिः श्लोकैः निर्दिशति in Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786