Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 754
________________ योग शास्रम् ॥ ३६८ ॥ •*••*-*-*O*••*6 Jain Education Internation सप्तधातुविनाभूतं पूर्णेन्दु विशदद्युतिम् । सर्वज्ञकल्पमात्मानं शुद्धबुद्धिः स्मरेत्ततः ॥ २३ ॥ ततः सिंहासनारूढं सर्वातिशयभासुरम् । विध्वस्ताशेषकर्माणं कल्याणमहिमान्वितम् ॥२४॥ स्वाङ्गगर्भे निराकारं संस्मरेदिति तत्रभूः । साभ्यास इति पिण्डस्थे योगी शिवसुखं भजेत् ॥२५॥ स्पष्टाः ।। २३-२५ ॥ पिण्डस्थध्येयस्य माहात्म्यं त्रिभिः श्लोकैराह— श्रश्रान्तमिति पिण्डस्थे कृताभ्यासस्य योगिनः । प्रभवन्ति न दुर्विद्या मन्त्रमण्डलशक्तयः ॥ २६ ॥ शाकिन्यः क्षुद्रयोगिन्यः पिशाचाः पिशिताशनाः । त्रस्यन्ति तत्क्षणादेव तस्य तेजोऽसहिष्णवः २७ दुष्टा: करटिनः सिंहाः शरभाः पन्नगा श्रपि । जिघांसवोऽपि तिष्ठन्ति स्तम्भिता इव दूरतः ॥ २८ ॥ इति परमार्हतश्रीकुमारपालशुश्रूषिते आचार्य श्री हेमचन्द्रविरचिते अध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं सप्तमप्रकाशविवरणम् ॥ ७ ॥ * 'नराकारं ' इति प्रत्यन्तरम् ॥ For Personal & Private Use Only: ** सप्तमः प्रकाशः । | ॥ ३६८ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786