Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 752
________________ योग शास्त्रम् ॥ ३६७ ॥ Jain Education International -- ***********20--02 पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् । चतुर्धा ध्येयमाम्नातं ध्यानस्यालम्बनं बुधैः ॥ ८ ॥ पिण्डं शरीरं तत्र तिष्ठतीति पिण्डस्थं ध्येयम् ॥ ८ ॥ तद्धारणाभेदेनाह— पार्थिवी स्यादथाग्नेयी मारुती वारुणी तथा । तत्रभूः पञ्चमी चेति पिण्डस्थे पञ्च धारणाः ॥ ९ ॥ स्पष्टः ॥ 8 ॥ तत्र पार्थिवीं धारणां श्लोकत्रयेणाह - तिर्यग्लो कसमं ध्यायेत् क्षीराब्धि तत्र चाम्बुजम् । सहस्रपत्रं स्वर्णाभं जम्बूद्वीपसमं स्मरेत् ॥ १०॥ तत्केसरततेरन्तः स्फुरत्पिङ्गप्रभाञ्चिताम् । स्वर्णाचलप्रमाणां च कणिकां परिचिन्तयेत् ॥ ११ ॥ श्वेतसिंहासनासीनं कर्मनिर्मूलनोद्यतम् । श्रात्मानं चिन्तयेत्तत्र पार्थिवी धारणेत्यसौ ॥ १२ ॥ तिर्यग्लोकसमं तिर्यग्लोकप्रमाणं यावान् तिर्यग्लोकस्तावन्मात्रं रज्जुप्रमाणमिति यावत् । शेषं स्पष्टम् ॥१०-१२॥ अथाग्नेयीं धारणां षड्भिः श्लोकैराह— विचिन्तयेत्तथा नाभौ कमलं षोडशच्छदम् । कणिकायां महामन्त्रं प्रतिपत्रं स्वरावलिम् ॥१३॥ रेफ बिन्दुकलाक्रान्तं महामन्त्रे यदक्षरम् । तस्य रेफाद्विनिर्यान्तीं शनैर्धूमशिखां स्मरेत् ॥ १४॥ For Personal & Private Use Only ***O***@************-- सप्तमः प्रकाशः । ॥ ३६७ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786