Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 750
________________ योगशास्त्रम् प्रकाश ॥३६६॥ इन्द्रियैः सममाकृष्य विषयेभ्यः प्रशान्तधीः।धर्मध्यानकृते तस्मान्मन: कुर्वीत निश्चलम् ॥६॥ इन्द्रियैः सह मनो वाह्यविषयेभ्य आकृष्येत्यनेन प्रत्याहारकथनम् । यदुक्तमस्माभिरभिधानचिन्तामणौ"प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः" । मनः कुर्वीत निश्चलमिति प्रत्याहारानन्तरोपदिष्टाया धारणाया उपक्रमः॥६॥ धारणास्थानान्येवम्नाभीहृदयनासाग्रभालभ्रूतालुदृष्टयः। मुखं करें शिरश्चेति ध्यानस्थानान्यकीर्तयन् ॥ ७॥ ध्यानस्थानानीति ध्याननिमित्तस्य धारणायाः स्थानानि ॥७॥ धारणायाः फलमाहएषामेकत्र कुत्रापि स्थाने स्थापयतो मनः । उत्पद्यन्ते स्वसंवित्तेर्बहवः प्रत्ययाः किल ॥ ८ ॥ प्रत्यया वक्ष्यमाणाः। शेष स्पष्टम् ॥८॥ इति परमाईतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं षष्ठप्रकाशविवरणम् ॥६॥ - IKEK ॥३६६॥ lain Education For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786