Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 748
________________ योगशास्त्रम् पञ्चमः | प्रकाशः। ॥३६॥ नराश्वकरिकायेषु प्रविशन्निःसरन्निति । कुर्वीत संक्रमं पुस्तोपलरूपेष्वपि क्रमात् ॥ २७१ ॥ स्पष्टाः ॥ २६४-२७१ ॥ उक्तमुपसंहरन् वाच्यशेषमाहएवं परासुदेहेषु प्रविशेद्वामनासया । जीवदेहप्रवेशस्तु नोच्यते पापशङ्कया ॥ २७२ ॥ पापशङ्कयेति जीवदेहप्रवेशे हि परस्य प्राणप्रहाणं स्यात् , तच्च पापं शस्त्रघातादिवन्नोपदेष्टव्यं । न च परोपघातमन्तरेण जीवत्परपुरप्रवेशः संभवति । तथाहि ब्रह्मरन्ध्रेण निर्गत्य प्रविश्यापानवमना । श्रित्वा नाभ्यम्बुजं यायात् हदम्भोज सुषुम्णया ॥१॥ तत्र तत्प्राणसंचारं निरुन्ध्यानिजवायुना । यावद्देहात्ततो देही गतचेष्टो विनिष्पतेत ॥२॥ तेन देहे विनिर्मुक्ते प्रादुर्भूतेन्द्रियक्रियः । वर्तेत सर्वकार्येषु स्वदेह इव योगवित् ॥ ३॥ दिनार्धं वा दिनं चेति क्रीडेत् परपुरे सुधीः । अनेन विधिना भूयः प्रविशेदात्मनः पुरम् ॥ ४ ॥ २७२ ॥ परपुरप्रवेशफलमाहक्रमेणैवं परपुरप्रवेशाभ्यासशक्तितः । विमुक्त इव निर्लेपः स्वेच्छया संचरेत् सुधीः ॥ २७३॥ स्पष्टः ।। २७३॥ इति परमाईतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिपन्नाम्नि संजातपट्टबन्धे श्री योगशास्त्रे स्वोपज्ञं पञ्चमप्रकाशविवरणम् ॥ ५॥ ३६शा in Education in For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786