Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 729
________________ :~~~3/0-3/0148 Jain Education Intern स्पष्टः । नवरमत्रेति कालज्ञानप्रस्तावे || १३४ ॥ कालज्ञाने उपायान्तराण्याह क्षुतविण्मेदमूत्राणि भवन्ति युगपद्यदि । मासे तत्र तिथौ तत्र वर्षान्ते मरणं तदा ॥१३५॥ तं क्षवः, विड् विष्टा, मेदो रेतः, मूत्रं प्रस्रावः, एतानि यदि युगपद्भवेयुस्तदा वर्षान्ते तत्रैव मासे तत्रैव दिने मृत्युः स्यात् ॥ १३५ ॥ तथा- रोहिणीं शशभृलदन महापथमरुन्धतीम् । ध्रुवं च न यदा पश्येद्वर्षेण स्यात्तदा मृतिः ॥ १३६ ॥ रोहिणीं नक्षत्रविशेषं, शशभृतो लक्ष्म लाञ्छनं, महापथं छायापथं, अरुन्धतीं वशिष्ठभार्या, ध्रुवमौत्तानपार्दि, यदैकैकं युगपद्वापदुदृष्टिर्न पश्येत्तदा वर्षेण मृत्युः । लौकिका श्रप्याहु: अरुन्धतीं ध्रुवं चैव विष्णोस्त्रीणि पदानि च । चीणायुषो न पश्यन्ति चतुर्थ मातृमण्डलम् ॥ १ ॥ अरुन्धती भवेजिह्वा ध्रुवो नासाग्रमुच्यते । तारा विष्णुपदं प्रोक्तं भ्रुवौ स्यान्मातृमण्डलम् ।। २ ।। १३६ ।। स्वप्ने स्वं भक्ष्यमाणं श्वगृध्रकाकनिशाचरैः । उह्यमानं खरोष्ट्राद्यैर्यदा पश्येत्तदा मृतिः ॥१३७॥ स्वमात्मानं श्वगृध्रकाकनिशाचरैर्भक्ष्यमाणं, उपलक्षणात् कृष्यमाणमपि, खरोष्ट्राद्यैः आदिशब्दात् श्ववराहादिभिश्चोह्यमानं, उपलक्षणात् कृष्यमाणं, यदा स्वने पश्येत्तदा वर्षान्ते मृत्युः । वर्षेणेत्यनुवर्तते ॥१३७॥ तथा— * भ्रूमध्ये विष्णुपदं ज्ञेयं तारिका मातृमण्डलम् ।। " इति प्रत्यन्तरम् ॥ "6 For Personal & Private Use Only KKKK*-*-*-***-08-0 www.jainelibrary.org

Loading...

Page Navigation
1 ... 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786