Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
गृध्रः काकः कपोतो वा क्रव्यादोऽन्योऽपि वा खगः ।
निलीयेत यदा मूर्ध्नि षण्मास्यन्ते मृतिस्तदा ॥ १४४ ॥ तारा कनीनिका, श्यामा अञ्जनवर्णा । शुष्येतामकस्मादधरौ दन्तच्छदौ तालु च काकुदं । राजदन्तावध उपरि च द्वौ द्वौ दन्तौ । शेषं स्पष्टम् ॥ १४३ ॥ १४४ ॥ प्रत्यहं पश्यतानभ्रेऽहन्यापूर्य जलैर्मुखम् । विहिते पूत्कृते शक्रधन्वा तु तत्र दृश्यते ॥१४॥ यदा न दृश्यते तत्तु मासैः षड्भिर्मृतिस्तदा । परनेत्रे खदेहं चेन्न पश्येन्मरणं तदा ॥१४६॥ ___अनभ्रेऽहनि मुखमापूर्य जलैः पूत्कृतेन ऊर्ध्व क्षिपन् शक्रधनुः पश्यतीति स्थितमेतत् । यदा तदिन्द्रधनुर्न पश्यति । तदा षड्भिर्मासैर्मृतिः । परकनीनिकायां स्वदेहो दृश्यते, यदा तं न पश्येत्तदा षड्भिर्मासैर्मरणम् ॥१४५॥१४६॥ तथाकूर्परौ न्यस्य जान्वोधन्येकीकृत्य करौ सदा। रम्भाकोशनिभा छायां लक्षयेदन्तरोद्भवाम् १४७ विकासि च दलं तत्र यदेकं परिलक्ष्यते। तस्यामेव तिथो मृत्युः षण्मास्यन्ते भवेत्तदा ॥१४८॥
अनभ्रेऽहनीति वर्तते । शेषं स्पष्टम् ॥ १४७ ॥ १४८ ॥ तथाइन्द्रनीलसमच्छाया वक्रीभूता: सहस्रशः। मुक्ताफलालङ्करणा: पन्नगाः सूक्ष्ममूर्तयः ॥१४९॥ दिवासंमुखमायान्तो दृश्यन्ते व्योम्नि सन्निधौ। न दृश्यन्ते यदा ते तुषण्मास्यन्ते मृतिस्तदा १५०
in Education Interi
For Personal & Private Use Only
T
w
ww.jainelibrary.org

Page Navigation
1 ... 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786