Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 716
________________ योगशास्त्रम् पञ्चमः प्रकाश। ॥३४६॥ * संक्रान्ती: समतिक्रम्य त्रयोदश समीरणः। प्रवहन् वामनासायां रोगोद्वेगादि सूचयेत्॥७॥ ____ वामनासायां त्रयोदश संक्रान्तीय॑तिक्रम्य चतुर्दश्यां संक्रान्तौ वहन् वायू रोगोद्वेगादि सूचयति ॥७॥तथामार्गशीर्षस्य संक्रान्तिकालादारभ्य मारुतः। वहन् पञ्चाहमाचष्टे वत्सरेऽष्टादशे मृतिम् ॥७९॥ ___ मार्गशीर्षस्य प्रथमदिवसादारभ्य यदा पञ्चरात्रमेकनाड्यां वहेत् वायुः तदाऽष्टादशे वर्षे मरणम् ॥७॥ तथाशरत्संक्रान्तिकालाच्च पञ्चाहं मारुतो वहन् । ततः पञ्चदशाब्दानामन्ते मरणमादिशेत्॥८॥ ___ अश्वयुक्प्रथमदिवसादारभ्य पञ्च दिनान्येकनाड्यां यदि वायुर्वरेत् तदा पञ्चदशवर्षान्ते मरणम् ॥८०॥ तथा| श्रावणादेः समारभ्य पञ्चाहमनिलो वहन् । अन्ते द्वादशवर्षाणां मरणं परिसूचयेत् ॥८१॥ वहन् ज्येष्ठादिदिवसादशाहानि समीरणः । दिशेन्नवमवर्षस्य पर्यन्ते मरणं ध्रुवम् ॥८२॥ श्रारभ्य चैत्राद्यदिनात् पञ्चाहं पवनो वहन् । पर्यन्ते वर्षषकस्य मृत्युं नियतमादिशेत् ॥८३॥ * श्रारभ्य माघमासादेः पञ्चाहानि मरुद्वहन् । संवत्सरत्रयस्यान्ते संसूचयति पञ्चताम् ॥८४॥ ___ अमी चत्वारः श्लोकाः पूर्ववद्व्याख्येयाः ॥ ८१ ॥ ८२ ॥ ८३ ॥ ८४ ॥ तथासर्वत्र द्वित्रिचतुरो वायुश्चेदिवसान् वहेत् । अब्दभागैस्तु ते शोध्या यथावदनुपूर्वशः ॥८५॥ ॥३४६।। in Education For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786