________________
॥ १३२९ ॥
Jain Education
seeeel
भावनाभिर्भावितानि पञ्चभिः पञ्चभिः क्रमात् ।
महाव्रतानि नो कस्य साधयन्त्यव्ययं पदम् ॥ २५ ॥
भाव० । भाव्यन्ते वास्यन्ते गुण विशेषमारोप्यन्ते आभिरिति भावनाः, ताभिर्भावनाभि: पञ्चभि: पञ्चभिर्भावितानि तानि महात्रतानि कस्य अव्ययं पदं मुक्तिपदं न साधयन्ति ॥ २५ ॥
अथ प्रतिव्रतं पञ्च पञ्च भावना आह
तद्यथा-
मनोगुप्त्यैषणादानेर्याभिः समितिभिः सदा । दृष्टान्नपानग्रहणेनाऽहिंसां भावयेत् सुधीः ॥ २६ ॥
मनो० | मनोगुप्या १ एषणया पिण्डविशुद्धया २ आदाननिक्षेपसमित्या ३ ईर्यासमित्या ४ दृष्टयोस्त्रपानयोर्ग्रहणेन संसक्तान्नपान परिहारेण ५ च सुधीर्यतिरहिंसां भावयेत् ॥ २६ ॥
हास्य १ लोभ २ भय ३ क्रोध ४ प्रत्याख्यानैर्निरन्तरम् । आलोच्य भाषणेनापि ५ भावयेत् सूनृत तम् ॥ २७ ॥
हास्य० । हास्य- लोभ-भय-क्रोधानां प्रत्याख्यानैर्वर्जनैः आलोच्य विमृश्य भाषणेन च सूनृतव्रतं भावयेत् ॥ २७ ॥ आलोच्यावग्रहयाच्ञाऽभीक्ष्णावग्रहयाचनम् ।
॥ २८ ॥
For Private & Personal Use Only
10
॥ १३२९ ॥ www.jainelibrary.org