Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 599
________________ ॥। १५०२ ।। eeeeeeeeeeeeet Jain Education Inte कर्मबन्धननिर्मुक्तस्त्रिलोकशिखरालयः । सिद्धो निरञ्जनः प्रोक्तः प्राप्तानन्तसुखोदयः ॥ १३० ॥ इति जीवपदार्थस्ते संक्षेपेण निरूपितः । अजीवतत्त्वमप्येवमवधारय धीधन ! ।। १३१ ॥ अलक्षणं तत्त्वं पञ्चधैव प्रपञ्च्यते । धर्माधर्मावथाकाशं काल: पुद्गल इत्यपि ॥ १३२ ॥ जीवपुद्गलयोर्यत् स्याद् गत्युपग्रहकारणम् । धर्मद्रव्यं तदुद्दिष्टमधर्मः स्थित्युपग्रहः ॥ १३३ ॥ गति-स्थितिमतामेतौ गति-स्थित्योरुपग्रहे । धर्माधर्मौ प्रवर्तेते न स्वयं प्रेरकौ मतौ ॥ १३४ ॥ यथा मत्स्यस्य गमनं विना नैवाम्भसा भवेत् । न चाम्भः प्रेरयत्येनं तथा धर्मास्त्यनुग्रहः ॥ १३५ ॥ तरुच्छाया यथा मर्त्यं स्थापयत्यर्थिनं स्वतः । न त्वेषा प्रेरयत्येनमथ च स्थितिकारणम् ॥ १३६ ॥ तथैवाधर्मकायोऽपि जीवपुद्गलयोः स्थितिम् । निवर्तयत्युदासीनो न स्वयं प्रेरकः स्थितेः ॥ १३७ ॥ जीवादीनां पदार्थानामवगाहनलक्षणम् । यत् तदाकाशमस्पर्शममूर्त व्यापि निष्क्रियम् ॥ १३८ ॥ वर्तनालक्षणः कालो वर्तना स्वपराश्रया । यथास्वं गुणपर्ययैः परिणन्तृत्वयोजना ॥ १३९ ॥ यथा कुलालचक्रस्य भ्रमणेऽधः शिला स्वयम् । धत्ते निमित्ततामेवं कालोऽपि कलितो बुधैः ॥ १४० ॥ व्यवहारात्मकात् कालान्मुख्यकालविनिर्णयः । मुख्ये सत्येव गौणस्य वाह्वीकादेः प्रतीतिः ॥ १४१ ॥ स कालो लोकमात्रैः स्वैरणुभिर्निचितः स्थितैः । ज्ञेयोऽन्योन्यमसंकीर्णे रत्नानामिव राशिभिः ॥ १४२ ॥ प्रदेश प्रचयायोगादकायोऽयं प्रकीर्तितः । शेषाः पञ्चास्तिकायाः स्युः प्रदेशोपचितात्मकाः ॥ १४३ ॥ १ धर्मास्तिकायानुग्रहः ॥ For Private & Personal Use Only 190000022alalalalalalalalalaadadade योगशास्त्रस्वोपनवृत्तौ सप्तमं परिशिष्टम् ।। १५०२ ।। ab Ga www.jainelibrary.org

Loading...

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632