Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥ १५२२ ।।
RECEMBEHCHERCHCHERSICICICIRECIRCREYEERENCERK
घेरण्डसंहितायामासनस्वरूपवर्णनम्-- " आसनानि समस्तानि यावन्तो जीवजन्तवः । चतुरशीतिलक्षाणि शिवेन कथितं पुरा ॥१॥ तेषां मध्ये विशिष्टानि षोडशोनं शतं कृतम् । तेषां मध्ये मर्त्यलोके द्वात्रिंशदासनं शुभम् ॥२॥ सिद्धं पद्मं तथा भद्रं मुक्तं वज्रं च स्वस्तिकम् । सिहं च गोमुखं वीरं धनुरासनमेव च ॥ ३ ॥ मृतं गुप्तं तथा मत्स्यं मत्स्येंद्रासनमेव च । गोरक्षं पश्चिमोत्तानं उत्कटं संकटं तथा ॥ ४ ॥ मयूरं कुक्कुटं कूर्म तथा चोत्तानकूर्मकम् । उत्तानमंडूकं वृक्षं मंडूकं गरुडं वृषम् ॥ ५॥ शलभं मकरं उष्ट्रं भुजंगं च योगासनम् । द्वात्रिंशदासनानि तु मर्त्यलोके च सिद्धिदम् ॥ ६॥ योनिस्थानकमधिमूलघटिक संपीड्य गुल्फेतरम् , मेढ़े संप्रणिधाय तंतुचिबुकं कृत्वा हृदि स्थापितम् ॥ स्थाणुः संयमितेंद्रियोऽचलदृशा पश्यन्भ्रुवोरंतरम् , मोक्षं चैव विधीयते फलकर सिद्धासनं प्रोच्यते ॥ ७॥ वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वाम तथा। दक्षोपरि पश्चिमेन विधिना कृत्वा कराभ्यां दृढम् ॥ अंगुष्ठे हृदये निधाय चिबुकं नासाग्रमालोकयेत् । एतद् व्याधिविनाशकारणपरं पद्मासनं चोच्यते ॥ ८॥ गुल्फी च वृषणस्याधो व्युत्क्रमेण समाहितः । पदांगुष्ठे कराभ्यां च धृत्वा च पृष्ठदेशतः ॥९॥ जालंधरं समासाथ नासाग्रमवलोकयेत् । भद्रासनं भवेदेतत् सर्वव्याधिविनाशकम् ॥ १० ॥ पायुमूले वामगुरूर्फ दक्षगुल्फें तथोपरि । शिरोग्रीवासमं कार्य मुक्तासनं तु सिद्धिदम् ॥ ११ ॥ जंघाभ्यां वज्रवत्कृत्वा गुदपार्श्वे पदावुभौ । वज्रासनं भवेदेतत् योगिनां सिद्धिदायकम् ॥ १२ ॥
For Private & Personal Use Only
ECHEHEHCHEHEYEHETHERMERRENCHHEHERSHEHERERCIRCTCHENSE
॥१५२१॥
Jain Education in
w.jainelibrary.org

Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632