Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 620
________________ ॥१५२३॥ वामपादं चितेर्मूलं संन्यस्य धरणीतले । पाददंडेन याम्येन वेष्टयेद्वामपादकम् । जानुयुग्मे करौ युग्ममेतत्तु संकटासनम् ॥ २८॥ धरामवष्टभ्य करयोस्तलाभ्यां तत्कूपरे स्थापितनाभिपार्श्वम् । उच्चासनो दंडवदुत्थितः खेमयूरमेतत्प्रवदन्ति पीठम् ॥ २९ ॥ पद्मासनं समासाद्य जानोरंतरे करौ । कूपराभ्यां समासीनो मंचस्थः कुक्कुटासनम् ॥ ३० ॥ गुल्फी च वृषणस्याधो व्युत्क्रमेण समाहितौ । ऋजुकायशिरोग्रीवं कूर्मासनमितीरितम् ॥ ३१ ॥ कुक्कुटासनबंधस्थं कराभ्यां धृतकंधरम् । पीठं कूर्मवदुत्तानमेतदुत्तानकूर्मकम् ॥ ३२ ॥ मंडूकासनमध्यस्थं कूपराभ्यां धृतं शिरः । एतद्भेकवदुत्तानमेतदुत्तानमंडूकम् ॥ ३३ ॥ वामोरुमूलदेशे च याम्ये पादौ निधाय तु । तिष्ठेत्तु वृक्षवद् भूमौ वृक्षासनमिदं विदुः ॥ ३४ ।। पादतलौ पृष्ठदेशे अंगुष्ठे द्वे च संस्पृशेत् । जानुयुग्मं पुरस्कृत्य साधयेन्मंडूकासनम् ॥ ३५ ॥ जंघोरुभ्यां धरां पीड्य स्थिरकायो द्विजानुना । जानूपरि करं युग्मं गरुडासनमुच्यते ॥ ३६ ।। याम्यगुल्फे पायुमूलं वामभागे पदेतरम् । विपरीतं स्पशेद भूमिं वृषासनमिदं भवेत् ॥ ३७॥ अधास्य शेते करयुग्मवक्षे भूमिमवष्टभ्य करयोस्तलाभ्याम् । पादौ च शून्ये च वितस्ति चोर्ध्व बदन्ति पीठं शलभं मुनीन्द्राः ॥३८॥ अधास्य शेते हृदयं निधाय भूमौ च पादौ प्रसार्यमाणौ । शिरे च धृत्वा करदंडयुग्मे देहाग्निकार मकरासनं तत् ।। ३९ ॥ अधास्य शेते पदयुग्मव्यस्तं पृष्ठे निधायापि धृतं कराभ्याम् । आकुंचयेत् सम्यगुदरास्यगाढं उष्टं च पीठं योगिनो वदंति ॥४०॥ अंगुष्ठनाभिपर्यतमधोभूमौ विनिन्यसेत् । करतलाभ्यां धरां धत्वा ऊर्च शीर्ष फणीव हि ।। ४१ ॥ देहाग्निर्वद्धते नित्यं सर्वरोगविनाशनम् । जागर्ति भुजगीदेवी साधनात् भुजगासनम् ॥ ४२ ॥ ॥१५२३॥ Jain Education Inte For Private & Personal Use Only v.jainelibrary.org

Loading...

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632