Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 619
________________ ।। १५२२ ।। Jain Education Beneliaceae onal जानूर्वोरन्तरे कृत्वा योगी पादतले उभे । ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥ १३ ॥ गुल्फौ च वृषणस्याधो व्युत्क्रमेणोर्ध्वतां गतः । चितिमूलो भूमिसंस्थः कृत्वा च जानुनोपरि ॥ १४ ॥ व्यक्ताव्यक्तौ जलंध्रं च नासाग्रमवलोकयेत् । सिंहासनं भवेदेतत् सर्वव्याधिविनाशकम् ॥ १५ ॥ पादौ च भूमौ संस्थाप्य पृष्ठपार्श्वे निवेशयेत् । स्थिरकायं समासाद्य गोमुखं गोमुखाकृतिः ॥ १६ ॥ एकपादमथैकस्मिन् विन्यस्येदुरुसंस्थितम् । इतरस्मिंस्तथा पश्चाद्वीरासनमितीरितम् ॥ १७ ॥ प्रसार्य पादौ भुवि दंडरूपौ करौ च पृष्ठे धृतपादयुग्मम् । कृत्वा धनुस्तुल्यपरिवर्तितांगं निगाय योगी धनुरासनं तत् ॥ १८ ॥ उत्तानशववद् भूमौ शयानं तु शवासनम् । शवासनं श्रमहरं चित्तविश्रांतिकारणम् ॥ १९ ॥ जानुनोरंतरे पादौ कृत्वा पादौ च गोपयेत् । पादोपरि च संस्थाप्य गुदं गुप्तासनं विदुः ॥ २० ॥ मुक्तेपद्मासनं कृत्वा उत्तानशयनं चरेत् । कूर्पराभ्यां शिरो वेष्ट्य मत्स्यासनं तु रोगहा ॥ २१ ॥ प्रसार्य पादौ भुवि दंडरूपौ संन्यस्तभालश्चितियुग्ममध्ये । यत्नेन पादौ च धृतौ कराभ्यां योगींद्रपीठं पश्चिमोत्तानमाहुः ॥ २२ ॥ २४ ॥ उदरं पश्चिमाभासं कृत्वा तिष्ठति यत्नतः । नम्रांगवामपादं हि दक्षजानूपरि न्यसेत् ॥ २३ ॥ तत्र याम्यं कूर्परं च याम्यं करे वक्त्रकम् । भ्रुवोर्मध्ये गतां दृष्टि पीठं मात्स्येंद्रमुच्यते ॥ जानूबरंतरे पादौ उत्तानाव्यक्तसंस्थितौ । गुल्फौ चाच्छाद्य हस्ताभ्यामुत्तानाभ्यां प्रयत्नतः ॥ २५ ॥ कंठसंकोचनं कृत्वा नासाग्रमवलोकयेत् । गोरक्षासनमित्याह योगिनां सिद्धिकारणम् ॥ २६ ॥ अंगुष्ठाभ्यामवष्टभ्य धरां गुल्फे च खे गतौ । तत्रोपरि गुदं न्यस्य विज्ञेयमुस्कटासनम् ॥ २७ ॥ 1 For Private & Personal Use Only योगशास्त्र स्वोपश वृत्तौ सप्तमं परिशिष्टम् ।। १५२२ ।। 10 www.jainelibrary.org

Loading...

Page Navigation
1 ... 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632