Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 623
________________ ॥ १५२६ ॥ Jain Education तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः । १।४२ । स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्र निर्भासा निर्वितर्का | १|४३| एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता | १|४४ | सूक्ष्मविषयत्वं चालिङ्गपर्यवसनाम् । १।४५ । ता एव सबीज: समाधिः । १।४६ । निर्विचारवैशारद्येऽध्यात्मप्रसादः । १।४७ । ऋतंभरा तत्र प्रज्ञा । १।४८ । श्रुतानुमान -प्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् । १।४९ । तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी । १।५० | तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः । १।५१ । यम-नियमा-ऽऽसन-प्राणायाम प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि । २।२९ । अहिंसा-सत्या स्तेय ब्रह्मचर्या परिग्रहा यमाः । २।३० । शौच- सन्तोष तपः-स्वाध्यायेश्वरप्रणिधानानि नियमाः । २ । ३१ । अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः । २।३५ । सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् |२| ३६ | अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् | २|३७| ब्रह्मचर्यप्रीतष्ठायां वीर्यलाभः । २।३८ । अपरिग्रहस्थैर्ये जन्मकथन्ताबोधः । २।३९ । शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः । २1४० । सत्त्वशुद्धिसौमनस्यैकाग्रयेन्द्रियजयात्मदर्शनयोग्यत्वानि च । २।४१ । सन्तोषादनुत्तमः सुखलाभः । २।४२ । कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः । २।४३ । स्वाध्यायादिष्टदेवता सम्प्रयोगः । २।४४ । समाधिसिद्धिरीश्वरप्रणिधानात् । २।४५ । स्थिरसुखमासनम् । २।४६ । प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् । २।४७ । ततो द्वन्द्वानभिघातः । २।४८ । तस्मिन् सति श्वास-प्रश्वासयोर्गतिविच्छेद: प्राणायामः | २|४९ । ततः क्षीयते प्रकाशावरणम् । २१५२ । धारणासु च योग्यता मनसः | २/५३ । स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः । २।५४ | ततः परमा वश्यतेन्द्रियाणाम् । २।५५ । देशबन्धश्चित्तस्य धारणा | ३|१ | तत्र प्रत्ययैकतानता ध्यानम् ३ २ । तदेवार्थमात्रनिर्मासं स्वरूपशून्यमिव समाधिः | ३ | ३ | त्रयमेकत्र संयमः | ३|४ | मैत्र्यादिषु बलानि । ३।२३ । बलेषु हस्तिबलादीनि । ३।२४ । ते समाधावुपसर्गाः, व्युत्थाने सिद्धयः | ३ | ३७ | For Private & Personal Use Only tional Eeeeeee686868eeeeee8888888se योगशास्त्र स्वोपज्ञ वृत्तौ सप्तमं | परिशिष्टम् ॥ १५२६ ।। 10 www.jainelibrary.org

Loading...

Page Navigation
1 ... 621 622 623 624 625 626 627 628 629 630 631 632