Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
।। १५२५ ।।
Jain Education Inte
यथाशक्त्या समाकृष्य पूरयेदुदरं शनैः । यथाशक्त्येव पश्चात्तु रेचयेदविरोधतः ।। १०७ ॥ इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् । दुर्लभं येन केनापि धीमता लभ्यते परम् ॥ १०८ ॥ अनुष्ठाने कृते प्राणः समश्चलति तत्क्षणात् । भवेदभ्यसने सम्यक् साधकस्य न संशयः ॥ १०९ ॥ पद्मासने स्थितो योगी प्राणापानविधानतः । पूरयेत् स विमुक्तः स्यात् सत्यं सत्यं वदाम्यहम् ॥ ११० ॥ प्रसार्य चरणद्वन्द्वं परस्परमसंयुतम् । स्वपाणिभ्यां दृढं धृत्वा जानूपरि शिरो न्यसेत् ॥ १११ ॥ आसनोग्रमिदं प्रोक्तं भवेदनिलदीपनम् । देहावसानहरणं पश्चिमोत्तानसंज्ञकम् ॥ ११२ ॥ य एतदासनं श्रेष्ठं प्रत्यहं साधयेत् सुधीः । वायुः पश्चिममार्गेण तस्य संचरति ध्रुवम् ॥ ११३ ॥ एतदभ्यासशीलानां सर्वसिद्धिः प्रजायते । तस्माद्योगी प्रयत्नेन साधयेत् सिद्धमात्मनः ॥ ११४ ॥ गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित् । येन शीघ्रं मरुत्सिद्धिर्भवेद् दुःखौधनाशिनी ॥ ११५ ॥ जानूर्वोरन्तरे सम्यग् धृत्वा पादतले उमे । समकायः सुखासीनः स्वस्तिकं तत्प्रचक्षते ॥ ११६ ॥ अनेन विधिना योगी मारुतं साधयेत् सुधीः । देहे न क्रमते व्याधिस्तस्य वायुश्च सिध्यति ॥ ११७ ॥ सुखासनमिदं प्रोक्तं सर्वदुःखप्रणाशनम् । स्वस्तिकं योगिभिर्गोप्यं स्वस्तीकरणमुत्तमम् ॥ ११८ ॥
इति शिवसंहितायामासनस्वरूपवर्णनम् । "
पतञ्जलिप्रणीते योगसूत्रे योगस्वरूपम् —
" योगश्चित्तवृत्तिनिरोधः । १२ । क्षीणवृत्तेर मिजातस्येव मणेर्ग्रहीतृ-ग्रहण- प्राह्येषु तत्स्थतदञ्जनता समापत्तिः । १४१ ।
For Private & Personal Use Only
aaaaaaa
10
।। १५२५ ।।
ww.jainelibrary.org

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632