Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 597
________________ ॥१५००॥ योगशास्त्रस्वोपक्ष सप्तमं परिशिष्टम् ॥१५००॥ कायवाङ्मनसां कर्म योगो योगविदां मतः । स शुभाशुभभेदेन भिन्नो द्वैविध्यमश्नुते ॥ २२५ ॥ यत् सम्यकपरिणामेषु चित्तस्याधानमञ्जसा । स समाधिरिति ज्ञेयः स्मृतिर्वा परमेष्ठिनाम् ।। २२६॥ प्राणायामो भवेद् योगनिग्रहः शुभभावनः । धारणा श्रुतनिर्दिष्टबीजानामवधारणम् ॥ २२७ ॥ आध्यानं स्यादनुध्यानमनित्यत्वादिचिन्तनैः । ध्येयं स्यात् परमं तत्त्वमवाङ्मनसगोचरम् ॥ २२८ ।। स्मृतिर्जीवादितत्त्वानां याथाम्यानुस्मृतिः स्मृता । गुणानुस्मरणं वा स्यात् सिद्धार्हत्परमेष्ठिनाम् ॥ २२९ ॥ फलं यथोक्तं बीजानि वक्ष्यमाणान्यनुक्रमात् । प्रत्याहारस्तु तस्योपसंहृतौ चित्तनिवृतिः ॥ २३० ॥ अकारादि हकारान्तं रेफमध्यान्तबिन्दुकम् । ध्यायन् परमिदं बीजं मुक्त्यर्थी नावसीदति ॥ २३१ ॥ षडक्षरात्मकं बीजमिवार्हद्भयो नमोऽस्विति । थ्यात्वा मुमुक्षुरार्हन्त्यमनन्तगुणमच्छति ॥ २३२ ॥ नमः सिद्धेभ्य इत्येतद् दशार्धस्तवनाक्षरम् । जपञ्जप्येषु भव्यात्मा स्वेष्टान् कामानवाप्स्यति ॥ २३३ ।। अष्टाक्षरं परं बीजं नमोऽहत्परमेष्ठिने। इतीदमनुसंस्मत्य पुनर्दुःखं न पश्यति ।। २३४ ॥ यत् षोडशाक्षरं बीजं सर्वबीजपदान्वितम् । तत्त्ववित् तदनुध्यायन् ध्रुवमेष मुमुक्षते ॥ २३५ ॥ पञ्चब्रह्ममयमन्त्रैः सकलीकृत्य निष्कलम् । परं तत्त्वमनुध्यायन् योगी स्याद् ब्रह्मतत्त्ववित् ॥ २३६ ॥" इति जिनसेनाचार्यविरचिते आदिपुराणे एकविंशे पर्वणि ॥ आदिपुराणे चतुर्विंशे पर्वणि वर्णित जीवाजीवस्वरूपम्-- "जीवो मुक्तश्च संसारी संसार्यात्मा द्विधा मतः । भव्योऽभव्यश्च साजीवास्ते चतर्धा विभाविताः ।। ८८ ।। Jain Education Inte For Private & Personal use only How.jainelibrary.org

Loading...

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632