Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 600
________________ ॥१५०३ ॥ PERHIERENCERMERRRRRRRRRRRCHCHCHEECHE धर्माधर्मवियत्कालपदार्था मूर्तिवर्जिताः । मूर्तिमत् पुद्गलद्रव्यं तस्य भेदानितः शृणु ॥ १४४ ॥ वर्ण-गन्ध-रस-स्पर्शयोगिनः पुद्गला मताः । पूरणाद् गलनाच्चैव संप्राप्तान्वर्थनामकाः ॥ १४५ ॥ स्कन्धाणुभेदतो द्वेधा पुद्गलस्य व्यवस्थितिः । स्निग्ध-रूक्षात्मकाणूनां संघातः स्कन्ध इप्यते ॥ १४६ ॥ द्वयणुकादिमहास्कन्धपर्यन्तस्तस्य विस्तरः । छायातपतमोज्योत्स्नापयोदादिप्रभेदभाक् ॥ १४७॥ अणवः कार्यलिङ्गाः स्युर्दिस्पर्शाः परिमण्डलाः । एकवर्णरसा नित्याः स्युरनित्याच पर्ययः(यैः) ॥ १४८ ॥ इत्यमीषां पदार्थानां याथात्म्यमविपर्ययात् । यः श्रद्धत्ते स भव्यात्मा परं ब्रह्माधिगच्छति ॥ १५४ ॥" इति जिनसेनाचार्यविरचिते आदिपुराणे चतुर्विंशतितमे पर्वणि ॥ "वैयावृत्यं च तस्यासीन्मार्गव्यापृतिमात्रकम् । भगवान् परमेष्ठी हि क्वान्यत्र व्यापृतो भवेत् ॥ १९४ ॥" इति आदिपुराणे विंशतितमे पर्वणि ॥ वैक्रमे दशमे शतके दिगम्बरश्री रामसेनमुनिप्रणीते तत्वानुशासने वर्णित ध्यानस्वरूपम्---- " मोक्षहेतुः पुनदे॒धा निश्चय-व्यवहारतः । तत्राद्यः साध्यरूपः स्याद् द्वितीयस्तस्य साधनम् ॥ २८ ॥ अभिन्नकर्तृकर्मादिविषयो निश्चयो नयः । व्यवहारनयो भिन्नकर्तृकर्मादिगोचरः ।। २९ ॥ १ तुलना-" प्रायश्चित्तं वैयापृत्य स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभं ध्यानं षोढेत्याभ्यन्तरं तपः ॥" इति योगशास्त्रे ४१९०। पृ० ८८०॥ HEHEREHEHEREHEREHEHERECEREMEHEREMEMERGREEHREHEACHE Jain Education Inte For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632