________________
॥१५०३ ॥
PERHIERENCERMERRRRRRRRRRRCHCHCHEECHE
धर्माधर्मवियत्कालपदार्था मूर्तिवर्जिताः । मूर्तिमत् पुद्गलद्रव्यं तस्य भेदानितः शृणु ॥ १४४ ॥ वर्ण-गन्ध-रस-स्पर्शयोगिनः पुद्गला मताः । पूरणाद् गलनाच्चैव संप्राप्तान्वर्थनामकाः ॥ १४५ ॥ स्कन्धाणुभेदतो द्वेधा पुद्गलस्य व्यवस्थितिः । स्निग्ध-रूक्षात्मकाणूनां संघातः स्कन्ध इप्यते ॥ १४६ ॥ द्वयणुकादिमहास्कन्धपर्यन्तस्तस्य विस्तरः । छायातपतमोज्योत्स्नापयोदादिप्रभेदभाक् ॥ १४७॥ अणवः कार्यलिङ्गाः स्युर्दिस्पर्शाः परिमण्डलाः । एकवर्णरसा नित्याः स्युरनित्याच पर्ययः(यैः) ॥ १४८ ॥ इत्यमीषां पदार्थानां याथात्म्यमविपर्ययात् । यः श्रद्धत्ते स भव्यात्मा परं ब्रह्माधिगच्छति ॥ १५४ ॥" इति जिनसेनाचार्यविरचिते आदिपुराणे चतुर्विंशतितमे पर्वणि ॥ "वैयावृत्यं च तस्यासीन्मार्गव्यापृतिमात्रकम् । भगवान् परमेष्ठी हि क्वान्यत्र व्यापृतो भवेत् ॥ १९४ ॥" इति आदिपुराणे विंशतितमे पर्वणि ॥ वैक्रमे दशमे शतके दिगम्बरश्री रामसेनमुनिप्रणीते तत्वानुशासने वर्णित ध्यानस्वरूपम्---- " मोक्षहेतुः पुनदे॒धा निश्चय-व्यवहारतः । तत्राद्यः साध्यरूपः स्याद् द्वितीयस्तस्य साधनम् ॥ २८ ॥ अभिन्नकर्तृकर्मादिविषयो निश्चयो नयः । व्यवहारनयो भिन्नकर्तृकर्मादिगोचरः ।। २९ ॥ १ तुलना-" प्रायश्चित्तं वैयापृत्य स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभं ध्यानं षोढेत्याभ्यन्तरं तपः ॥"
इति योगशास्त्रे ४१९०। पृ० ८८०॥
HEHEREHEHEREHEREHEHERECEREMEHEREMEMERGREEHREHEACHE
Jain Education Inte
For Private & Personal Use Only
jainelibrary.org