________________
॥। १५०२ ।।
eeeeeeeeeeeeet
Jain Education Inte
कर्मबन्धननिर्मुक्तस्त्रिलोकशिखरालयः । सिद्धो निरञ्जनः प्रोक्तः प्राप्तानन्तसुखोदयः ॥ १३० ॥ इति जीवपदार्थस्ते संक्षेपेण निरूपितः । अजीवतत्त्वमप्येवमवधारय धीधन ! ।। १३१ ॥ अलक्षणं तत्त्वं पञ्चधैव प्रपञ्च्यते । धर्माधर्मावथाकाशं काल: पुद्गल इत्यपि ॥ १३२ ॥ जीवपुद्गलयोर्यत् स्याद् गत्युपग्रहकारणम् । धर्मद्रव्यं तदुद्दिष्टमधर्मः स्थित्युपग्रहः ॥ १३३ ॥ गति-स्थितिमतामेतौ गति-स्थित्योरुपग्रहे । धर्माधर्मौ प्रवर्तेते न स्वयं प्रेरकौ मतौ ॥
१३४ ॥
यथा मत्स्यस्य गमनं विना नैवाम्भसा भवेत् । न चाम्भः प्रेरयत्येनं तथा धर्मास्त्यनुग्रहः ॥ १३५ ॥ तरुच्छाया यथा मर्त्यं स्थापयत्यर्थिनं स्वतः । न त्वेषा प्रेरयत्येनमथ च स्थितिकारणम् ॥ १३६ ॥ तथैवाधर्मकायोऽपि जीवपुद्गलयोः स्थितिम् । निवर्तयत्युदासीनो न स्वयं प्रेरकः स्थितेः ॥ १३७ ॥ जीवादीनां पदार्थानामवगाहनलक्षणम् । यत् तदाकाशमस्पर्शममूर्त व्यापि निष्क्रियम् ॥ १३८ ॥ वर्तनालक्षणः कालो वर्तना स्वपराश्रया । यथास्वं गुणपर्ययैः परिणन्तृत्वयोजना ॥ १३९ ॥ यथा कुलालचक्रस्य भ्रमणेऽधः शिला स्वयम् । धत्ते निमित्ततामेवं कालोऽपि कलितो बुधैः ॥ १४० ॥ व्यवहारात्मकात् कालान्मुख्यकालविनिर्णयः । मुख्ये सत्येव गौणस्य वाह्वीकादेः प्रतीतिः ॥ १४१ ॥ स कालो लोकमात्रैः स्वैरणुभिर्निचितः स्थितैः । ज्ञेयोऽन्योन्यमसंकीर्णे रत्नानामिव राशिभिः ॥ १४२ ॥ प्रदेश प्रचयायोगादकायोऽयं प्रकीर्तितः । शेषाः पञ्चास्तिकायाः स्युः प्रदेशोपचितात्मकाः ॥ १४३ ॥
१ धर्मास्तिकायानुग्रहः ॥
For Private & Personal Use Only
190000022alalalalalalalalalaadadade
योगशास्त्रस्वोपनवृत्तौ सप्तमं परिशिष्टम्
।। १५०२ ।।
ab
Ga
www.jainelibrary.org