________________
॥१५०१ ॥
मुक्तेतरात्मको जीवो मूर्तामूर्तात्मकः परः। इति वा तस्य तत्त्वस्य चातुर्विध्यं विनिश्चितम् ॥ ८९॥ पञ्चास्तिकायभेदेन तत्तत्त्वं पञ्चधा स्मृतम् । ते जीव-पुद्गला-ऽऽकाश-धर्मा-ऽधर्माः सपर्ययाः ॥ ९० ॥ त एवं कालसंयुक्ताः षोढा तत्त्वस्य भेदकाः। इत्यनन्तो भवेदस्य प्रस्तारो विस्तरैषिणाम् ॥ ९१ ॥ चेतनालक्षणो जीवः सोऽनादिनिधनस्थितिः । ज्ञाता द्रष्टा च कर्ता च भोक्ता देहप्रमाणकः ॥ ९२ ॥ गुणवान् कर्मनिर्मुक्तावूव्रज्यास्वभावकः । परिणन्तोपसंहारविसर्पाभ्यां प्रदीपवत् ॥ ९३ ॥ तस्येमे मार्गणोपाया गत्यादय उदाहृताः । चतुर्दशगुणस्थानः सोऽत्र मृग्यः सदादिभिः ॥ ९४ ॥ गतीन्द्रिये च कायश्च योगवेदकषायकाः । ज्ञानसंयमदृग्लेश्याभव्यसम्यक्त्वसज्ञिनः ॥ ९५ ॥ सममाहारकेण स्युः मार्गणास्थानकानि वै । सोऽन्वेप्यस्तेषु सत्संख्याद्यनुयोगैर्विशेषतः ॥ ९६ ॥ सत्संख्याक्षेत्रसंस्पर्शकालभावान्तरैस्यम् । बहुत्वाल्पत्वतश्चात्मा मुग्यः स्यात् स्मृतिचक्षुषाम् ॥ ९७ ॥ पदार्थस्तु द्विधा ज्ञेयो जीवाजीवविभागतः । यथोक्तलक्षणो जीवैस्त्रिकोटिपरिणामभाक् ॥ १२७ ।। भव्याभव्यो तथा मुक्त इति जीवस्त्रिधोदितः । भविष्यत्सिद्धिको भव्यः सुवर्णोपलसन्निभः ॥ १२८ ॥ अभव्यस्तद्विपक्षः स्यादन्धपाषाणसंनिभः । मुक्तिकारणसामग्री न यस्यास्ति कदाचन ॥ १२९ ॥
HeHEHCHEHEHEREMEHEREHENERHEHEHEREHEHEREHEREMEHEREHEHEN
१ “गतीन्द्रियवपुर्योगवेदज्ञानक्रदादयः। संयमाहारगृलेश्याभव्यसम्यक्त्वसंज्ञिनः ।। २६ ॥” इति योगशास्त्रस्वोपज्ञवृत्तौ पृ० १०८ ॥ २ उत्पाद-व्यय-धौव्याणि तिस्रः कोटयः ॥
॥१५०१॥
Jain Education Inte
For Private & Personal Use Only
w.jainelibrary.org