Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 601
________________ ॥१५०४॥ योगशास्त्रस्वोपक्ष सप्तम परिशिष्टम् ॥ १५०४॥ धर्मादिश्रद्धानं सम्यक्त्वं ज्ञानमधिगमस्तेषाम् । चरणं च तपसि चेष्टा व्यवहाराद मुक्तिहेतुरयम् ॥ ३०॥ निश्चयनयेन भणितस्त्रिभिरेभिर्यः समाहितो भिक्षुः । नोपादत्ते किश्चन न च मुञ्चति मोक्षहेतुरसौ ॥ ३१ ॥ यो मध्यस्थः पश्यति जानात्यात्मानमात्मनात्मन्यात्मा । दृगवगमचरणरूपः स निश्चयान्मुक्तिहेतुरिति जिनोक्तिः ३२ ॥ स च मुक्तिहेतुरिद्धो ध्याने यस्मादवाप्यते द्विविधोऽपि । तस्मादभ्यस्यन्तु ध्यानं सुधियः सदाप्यपास्यालस्यम् ॥ ३३ ॥ आते च रौद्रं च दुर्थ्यानं वर्जनीयमिदं सदा। धर्म्य शुक्लं च सद्ध्यानमुपादेयं मुमुक्षुभिः ॥ ३४ ॥ बज्रसंहननोपेताः पूर्वश्रुतसमन्विताः । दध्युः शुक्लमिहातीताः श्रेण्योरारोहणक्षमाः ॥ ३५ ॥ तादृक्सामय्यभावे तु ध्यातुं शुक्लमिहाक्षमान् । ऐदंयुगीनानुद्दिश्य धर्म्यध्यानं प्रचक्ष्महे ॥ ३६ ॥ अप्रमतः प्रमत्तश्च सदृष्टिर्देशसंयतः । धर्म्यध्यानस्य चत्वारस्तत्त्वार्थे स्वामिनः स्मृताः ॥ ४६ ।। मुख्योपचारभेदेन धर्म्यध्यानमिह द्विधा । अप्रमत्तेषु तन्मुख्यमितरेप्वोपचारिकम् ।। ४७ ।। द्रव्यक्षेत्रादिसामग्री ध्यानोत्पत्तौ यतस्त्रिधा । ध्यातारस्त्रिविधास्तस्मात् तेषां ध्यानान्यपि त्रिधा ॥ ४८ ॥ सामग्रीतः प्रकृष्टाया ध्यातरि ध्यानमुत्तमम् । स्याजघन्य जघन्याया मध्यमायास्तु मध्यमम् ।। ४९ ॥ श्रुतेन विकलेनापि ध्याता स्यान्मनसा स्थिरः । प्रबुद्धधीरधः श्रेण्योधर्म्यध्यानस्य सुश्रुतः ॥ ५० ॥ सदृष्टि-ज्ञान-वृत्तानि धर्मं धर्मेश्वरा विदुः । तस्माद् यदनपेतं हि धर्म्य तद् ध्यानमभ्यधुः ॥ ५१ ॥ आत्मनः परिणामो यो मोहक्षोभ विवर्जितः । स च धर्मोऽनपेतं यत् तस्मात् तद् धर्म्यमित्यपि ।। ५२ ॥ एकाग्रचिन्तारोधो यः परिस्पन्देन वर्जितः । तद् ध्यानं निर्जराहेतुः संवरस्य च कारणम् ॥ ५६ ॥ Jain Education in a Salww.jainelibrary.org. For Private & Personal Use Only nal

Loading...

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632