Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
।। १५११ ।।
Jain Education Inte
eeeeeeeeeeeeeeeee
ध्यातोऽईत्सिद्धरूपेण चरमाङ्गस्य मुक्तये । तद्धयानोपात्तपुण्यस्य स एवान्यस्य भुक्तये ॥ १९७ ॥ ज्ञानं श्रीरायुरारोग्यं तुष्टिः पुष्टिर्व पुर्धृतिः । यत्प्रशस्तमिहान्यच्च तत्तद्र्यातुः प्रजायते ॥ १९८ ॥ तद्धयानाविष्टमालोक्य प्रकम्पन्ते महाग्रहाः । नश्यन्ति भूतशाकिन्यः क्रूराः शाम्यन्ति च क्षणात् ॥ १९९ ॥ यो यत्कर्मप्रभुर्देवस्तद्ध्यानाविष्टमात्मनः । ध्याता तदात्मको भूत्वा साधयत्यात्मवाञ्छितम् ॥ २०० ॥
पार्श्वनाथभवन्मन्त्री सकलीकृतविग्रहः । महामुद्रां महामन्त्रं महामण्डलमाश्रितः ॥ २०१ ॥ तैजसीप्रभृतीबिंश्रद्धारणाश्च यथोचितम् । निग्रहादीनुदप्राणां ग्रहाणां कुरुते द्रुतम् ॥ २०२ ॥ स्वयमाखण्डलो भूत्वा महामण्डलमध्यगः । किरीट (टी) कुंडली वज्री पीताभूषाम्बरादिकः ॥ २०३ ॥ कुम्भकी स्तम्भमुद्राढ्यः स्तम्भनं मन्त्रमुच्चरन् । स्तम्भकार्याणि सर्वाणि करोत्येकाग्रमानसः ॥ २०४ ॥ स स्वयं गरुडीभूय क्ष्वेडं क्षपयति क्षणात् । कन्दर्पश्च स्वयं भूत्वा जगन्नयति वश्यताम् ॥ २०५ ॥ एवं वैश्वानरो भूत्वा ज्वलज्ज्वाला ताकुलः । शीतज्वरं हरत्याशु व्याप्य ज्वालाभिरातुरम् || २०६ ॥ स्वयं सुधामयो भूत्वा वर्षन्नमृतमातुरे । अथैनमात्मसात्कृत्य दाहज्वरमपास्यति ॥ २०७ ॥ क्षीरोदधिमयो भूत्वा प्लावयन्नखिलं जगत् । शान्तिकं पौष्टिक योगी विदधाति शरीरिणाम् ॥ २०८ ॥ किमत्र बहु कर्म चिकीर्षति । तद्देवतामयो भूत्वा तत्तन्निर्वर्त्तयत्ययम् ॥ २०९ ॥
१ अस्य तुलना ज्ञानार्णवेन सह कर्तव्या लो० १०६०-१०६२ ॥
For Private & Personal Use Only
10
।। १५९१ ।।
w.jainelibrary.org

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632