Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 598
________________ ॥१५०१ ॥ मुक्तेतरात्मको जीवो मूर्तामूर्तात्मकः परः। इति वा तस्य तत्त्वस्य चातुर्विध्यं विनिश्चितम् ॥ ८९॥ पञ्चास्तिकायभेदेन तत्तत्त्वं पञ्चधा स्मृतम् । ते जीव-पुद्गला-ऽऽकाश-धर्मा-ऽधर्माः सपर्ययाः ॥ ९० ॥ त एवं कालसंयुक्ताः षोढा तत्त्वस्य भेदकाः। इत्यनन्तो भवेदस्य प्रस्तारो विस्तरैषिणाम् ॥ ९१ ॥ चेतनालक्षणो जीवः सोऽनादिनिधनस्थितिः । ज्ञाता द्रष्टा च कर्ता च भोक्ता देहप्रमाणकः ॥ ९२ ॥ गुणवान् कर्मनिर्मुक्तावूव्रज्यास्वभावकः । परिणन्तोपसंहारविसर्पाभ्यां प्रदीपवत् ॥ ९३ ॥ तस्येमे मार्गणोपाया गत्यादय उदाहृताः । चतुर्दशगुणस्थानः सोऽत्र मृग्यः सदादिभिः ॥ ९४ ॥ गतीन्द्रिये च कायश्च योगवेदकषायकाः । ज्ञानसंयमदृग्लेश्याभव्यसम्यक्त्वसज्ञिनः ॥ ९५ ॥ सममाहारकेण स्युः मार्गणास्थानकानि वै । सोऽन्वेप्यस्तेषु सत्संख्याद्यनुयोगैर्विशेषतः ॥ ९६ ॥ सत्संख्याक्षेत्रसंस्पर्शकालभावान्तरैस्यम् । बहुत्वाल्पत्वतश्चात्मा मुग्यः स्यात् स्मृतिचक्षुषाम् ॥ ९७ ॥ पदार्थस्तु द्विधा ज्ञेयो जीवाजीवविभागतः । यथोक्तलक्षणो जीवैस्त्रिकोटिपरिणामभाक् ॥ १२७ ।। भव्याभव्यो तथा मुक्त इति जीवस्त्रिधोदितः । भविष्यत्सिद्धिको भव्यः सुवर्णोपलसन्निभः ॥ १२८ ॥ अभव्यस्तद्विपक्षः स्यादन्धपाषाणसंनिभः । मुक्तिकारणसामग्री न यस्यास्ति कदाचन ॥ १२९ ॥ HeHEHCHEHEHEREMEHEREHENERHEHEHEREHEHEREHEREMEHEREHEHEN १ “गतीन्द्रियवपुर्योगवेदज्ञानक्रदादयः। संयमाहारगृलेश्याभव्यसम्यक्त्वसंज्ञिनः ।। २६ ॥” इति योगशास्त्रस्वोपज्ञवृत्तौ पृ० १०८ ॥ २ उत्पाद-व्यय-धौव्याणि तिस्रः कोटयः ॥ ॥१५०१॥ Jain Education Inte For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632