________________
॥ १३२७ ॥
Jain Education
aaaa
अथ मूलगुणानाह-
अहिंसा-सूनृतास्तेय-ब्रह्मचर्या - ऽपरिग्रहाः । पञ्चभिः पञ्चभिर्युक्ता भावनाभिर्विमुक्तये ॥ १९ ॥
अहिं । अहिंसा जीवदया १, सूनृतं सत्यम् २, अस्तेयं अदत्तपरिहार: ३, ब्रह्मचर्यम् ४, अपरिग्रहश्च ५, एते पञ्च पञ्चभिः पञ्चभिर्भावनाभिर्युक्ताः सन्तो विमुक्तये स्युः १९ ॥
tional
अथैतेषां पृथक् पृथक् स्वरूपमाह -
न यत् प्रमादयोगेन जीवितव्यपरोपणम् ।
त्रसानां स्थावराणां च तदहिंसाव्रतं मतम् ॥ २० ॥
न य० । प्रमादोऽज्ञान १ संशय २ विपर्यय ३ राग ४ द्वेष ५ स्मृतिभ्रंश ६ योगदुष्प्रणिधान ७ धर्मानादरस्वभेदादष्टविधः। ततः प्रमादयोगात् यत् त्रसानां स्थावराणां जीवानां जीवितस्य प्राणस्य व्यपरोपणं विनाशो न क्रियते तदहिंसात्रतं जिनैर्मतम् ॥ २० ॥
प्रियं पथ्यं वचस्तर्थ्य सूनृत व्रतमुच्यते ।
तत्तथ्यमपि नो तथ्यमप्रियं चाहितं च यत् ॥ २१ ॥
प्रियमभीष्टं पथ्यं हितं तथ्यं सत्यं यद्वचः स्यात्तत् सूनृतव्रतमुच्यते । यत् पुनरप्रियम् अहितं विरुद्धं च तद्वचस्तथ्यमपि न तथ्यं स्यात् । तदसत्यमेवेत्यर्थः ॥ २१ ॥
For Private & Personal Use Only
188888888888aa
J88888
5
10
॥ १३२७ ॥
www.jainelibrary.org