Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥ १४७६॥
| योगशास्त्रस्वोपक्षवृत्ती सप्तमं परिशिष्टम्
तुला-"धर्मा-धर्म-नभः-कालाः पुद्गलैः सह योगिभिः । द्रव्याणि षट् प्रणीतानि जीवपूर्वाण्यनुक्रमात् ॥ ४१४ ॥ तत्र जीवादयः पञ्च प्रदेशप्रचयात्मकाः । कायाः कालं विना ज्ञेया भिन्नप्रकृतयोऽप्यमी ॥ ४१५ ॥ अचिद्रपा विना जीवममूर्ताः पुद्गलं विना । पदार्था वस्तुतः सर्वे स्थित्युत्पत्तिव्ययात्मकाः ॥ ४१६ ॥ अणु-स्कन्धविभेदेन भिन्नाः स्युः पुद्गला द्विधा । मूर्ता वर्ण-रस-स्पर्श-गुणोपेताश्च रूपिणः ॥ ४१७ ।। प्रत्येकमेकद्रव्याणि धर्मादीनि यथायथम् । आकाशान्तान्यमूर्तानि निष्क्रियाणि स्थिराणि च ॥ ४१९ ॥ स लोकगगनव्यापी धर्मः स्याद् गतिलक्षणः । तावन्मात्रोऽप्यधर्मोऽयं स्थितिलक्ष्मा प्रकीर्तितः ॥ ४२० ॥ स्वयं गन्तुं प्रवृत्तेषु जीवाजीवेषु सर्वदा । धर्मोऽयं सहकारी स्याज्जलं यादोऽङ्गिनामिव ।। ४२१ ॥ दत्ते स्थितिं प्रपन्नानां जीवादीनामयं स्थितिम् । अधर्मः सहकारित्वाद् यथा छायाध्ववर्तिनाम् ॥ ४२२ ॥ अवकाशप्रदं व्योम सर्वगं स्वप्रतिष्ठितम् । लोकालोकविकल्पेन तस्य लक्ष्म प्रकीर्तितम् ॥ ४२३ ॥ लोकालोकप्रदेशेषु ये भिन्ना अणवः स्थिताः । परिवर्ताय भावानां मुख्यः कालः स वर्णितः ॥ ४२४ ॥ समयादिकृतं यस्य मानं ज्योतिर्गणाश्रितम् । व्यवहाराभिधः कालः स कालज्ञैः प्रपञ्चितः ॥ ४२५ ॥ यदमी परिवर्तन्ते पदार्था विश्ववर्तिनः । नव-जीर्णादिरूपेण तत् कालस्यैव चेष्टितम् ॥ ४२६ ॥ . भाविनो वर्तमानत्वं वर्तमानास्वतीतताम् । पदार्थाः प्रतिपद्यन्ते कालकेलिकदर्थिताः ॥ ४२७ ॥"-ज्ञानार्णवे ।
॥१४७६॥
TELETEKETRIEVEHENERATREETECTRENEVEREHEHEREHEEvere
BHCHEMEHEYENERIMENSIKCHEMEREMEMBERSHISHEREMEMBERSHISHMIS
1 सर्वथा M N ॥
Jain Education Inte
For Private & Personal Use Only
Dlww.jainelibrary.org

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632