SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ ॥ १४७६॥ | योगशास्त्रस्वोपक्षवृत्ती सप्तमं परिशिष्टम् तुला-"धर्मा-धर्म-नभः-कालाः पुद्गलैः सह योगिभिः । द्रव्याणि षट् प्रणीतानि जीवपूर्वाण्यनुक्रमात् ॥ ४१४ ॥ तत्र जीवादयः पञ्च प्रदेशप्रचयात्मकाः । कायाः कालं विना ज्ञेया भिन्नप्रकृतयोऽप्यमी ॥ ४१५ ॥ अचिद्रपा विना जीवममूर्ताः पुद्गलं विना । पदार्था वस्तुतः सर्वे स्थित्युत्पत्तिव्ययात्मकाः ॥ ४१६ ॥ अणु-स्कन्धविभेदेन भिन्नाः स्युः पुद्गला द्विधा । मूर्ता वर्ण-रस-स्पर्श-गुणोपेताश्च रूपिणः ॥ ४१७ ।। प्रत्येकमेकद्रव्याणि धर्मादीनि यथायथम् । आकाशान्तान्यमूर्तानि निष्क्रियाणि स्थिराणि च ॥ ४१९ ॥ स लोकगगनव्यापी धर्मः स्याद् गतिलक्षणः । तावन्मात्रोऽप्यधर्मोऽयं स्थितिलक्ष्मा प्रकीर्तितः ॥ ४२० ॥ स्वयं गन्तुं प्रवृत्तेषु जीवाजीवेषु सर्वदा । धर्मोऽयं सहकारी स्याज्जलं यादोऽङ्गिनामिव ।। ४२१ ॥ दत्ते स्थितिं प्रपन्नानां जीवादीनामयं स्थितिम् । अधर्मः सहकारित्वाद् यथा छायाध्ववर्तिनाम् ॥ ४२२ ॥ अवकाशप्रदं व्योम सर्वगं स्वप्रतिष्ठितम् । लोकालोकविकल्पेन तस्य लक्ष्म प्रकीर्तितम् ॥ ४२३ ॥ लोकालोकप्रदेशेषु ये भिन्ना अणवः स्थिताः । परिवर्ताय भावानां मुख्यः कालः स वर्णितः ॥ ४२४ ॥ समयादिकृतं यस्य मानं ज्योतिर्गणाश्रितम् । व्यवहाराभिधः कालः स कालज्ञैः प्रपञ्चितः ॥ ४२५ ॥ यदमी परिवर्तन्ते पदार्था विश्ववर्तिनः । नव-जीर्णादिरूपेण तत् कालस्यैव चेष्टितम् ॥ ४२६ ॥ . भाविनो वर्तमानत्वं वर्तमानास्वतीतताम् । पदार्थाः प्रतिपद्यन्ते कालकेलिकदर्थिताः ॥ ४२७ ॥"-ज्ञानार्णवे । ॥१४७६॥ TELETEKETRIEVEHENERATREETECTRENEVEREHEHEREHEEvere BHCHEMEHEYENERIMENSIKCHEMEREMEMBERSHISHEREMEMBERSHISHMIS 1 सर्वथा M N ॥ Jain Education Inte For Private & Personal Use Only Dlww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy