SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ ॥१४७७॥ तुला-धर्माधर्मनभःकालपुद्गलाः परिकीर्तिताः । अजीवाः पञ्च सूत्रज्ञैरुपयोगविवर्जिताः ॥ ३॥२९॥ लोकालोकौ स्थितं व्याप्य व्योमानन्तप्रदेशकम् | लोकाकाशं स्थितौ व्याप्य धर्माधर्मी समं ततः ॥ ३॥३१॥ जीवानां पुद्गलानां च गतिस्थितिविधायिनौ । धर्माधर्मी मतौ प्राज्ञैराकाशमवकाशकृत् ॥ ३॥३३ ॥ असंख्या भुवनाकाशे कालस्य परमाणवः । एकैका वर्तनाकार्या मुक्ता इव व्यवस्थिताः ॥ ३॥३४॥" अमित० श्रावकाचारे । पृ० ११२ पं० ३-- "मनोवचनकायानां यत् स्यात् कर्म स आस्रवः । शुभः शुभस्य हेतुः स्यादशुभस्त्वशुभस्य सः ॥५६॥" -योग० स्वो० तुला-" यद् वाक्कायमनःकर्म योगोऽसावास्रवः स्मृतः ।.......शुभः शुभस्य विज्ञेयस्तत्रान्योऽन्यस्य कर्मणः ।...।।३।३८, ३९॥" अमित० श्रावकाचारे। पृ० ११२ पं० ८-९" सकषायतया जीवः कर्मयोग्यांस्तु पुद्गलान् । यदादत्ते स बन्धः स्याज्जीवास्वातन्त्र्यकारणम् ॥ ५९॥ प्रकृति-स्थित्यनुभाव-प्रदेशा विधयोऽस्य तु । प्रकृतिस्तु स्वभावः स्यात् ज्ञानावृत्यादिरष्टधा ॥ ६०॥ निकर्षोत्कर्षतः कालनियमः कर्मणां स्थितिः । अनुभावो विपाकः स्यात् प्रदेशोंऽशप्रकल्पनम् ॥ ६२ ॥"-योग० स्वोपज्ञवृत्तौ । तुला-"प्रकृत्यादिविकल्पेन ज्ञेयो बन्धश्चतुर्विधः । ज्ञानावृत्यादिभेदेन सोऽष्टधा प्रथमः स्मृतः ॥ ४३४ ॥" -ज्ञानार्णवे । "स्वभावः प्रकृतिः प्रोक्ता स्थितिः कालावधारणम् । अनुभागो विपाकस्तु प्रदेशोंऽशप्रकल्पनम् ॥३॥५६॥" -अमित० श्रावकाचारे। For Private & Personal Use Only ॥१४७७॥ Jain Education www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy