________________
॥ १४७८ ॥
Jain Education Int
Baldee
पृ० ११३ पं० ८- पृ० ११४ पं० २
मति-श्रुता-ऽवधि-मनःपर्यायाः केवलं तथा । अमीभिः सान्वयैर्भेदैर्ज्ञानं पञ्चविधं मतम् ॥ ६७ ॥ अवग्रहादिभिर्भिन्नं बह्राद्यैरितरैरपि । इन्द्रियाऽनिन्द्रियभवं मतिज्ञानमुदीरितम् ॥ ६८ ॥ विस्तृतं बहुधा पूर्वैरङ्गोपाङ्गैः प्रकीर्णकैः । स्याच्छब्दलान्छितं ज्ञेयं श्रुतज्ञानमनेकधा ॥ ६९ ॥ देव-नैरयिकाणां स्यादवधिर्भवसम्भवः । षड्विकल्पस्तु शेषाणां क्षयोपशमलक्षणः ॥ ७० ॥ ऋजुर्विपुल इत्येवं स्यान्मनःपर्ययो द्विधा । विशुद्धयप्रतिपाताभ्यां तद्विशेषोऽवगम्यताम् [! ७१ ॥ अशेषद्रव्यपर्यायविषयं विश्वलोचनम् । अनन्तमेकमत्यक्षं केवलज्ञानमुच्यते ॥ ७२ ॥ " - योग० स्वोपज्ञवृत्तौ । तुला- "मति श्रुताऽवधिज्ञान-मनपर्याय केवलैः । तदित्यं सान्ययैर्भेदैः पञ्चधेति प्रकल्पितम् || ४५१ ॥ अवग्रहादिभिर्भेदैर्ब्रह्वाद्यन्तर्भवैः परैः । षट्त्रिंशत् त्रिशतीं प्राहुर्मतिज्ञानं प्रपञ्चतः ॥ ४५२ ॥
प्रसृतं बहुधा ने कैरङ्गपूर्वैः प्रकीर्णकैः । स्याच्छब्दलाञ्छितं तद्धि श्रुतज्ञानमनेकधा ।। ४५३ ।। देव-नारकयोर्ज्ञेयस्त्ववधिर्भवसम्भवः । षड्विकल्पश्च शेषाणां क्षयोपशमलक्षणः || ४५४ ॥ ऋजुर्विपुल इत्येवं स्यान्मनः पर्ययो द्विधा । विशुद्धयप्रतिपाताभ्यां तद्विशेषोऽवगम्यताम् ॥ ४५५ ॥ अशेषद्रव्यपर्यायविषयं विश्वलोचनम् । अनन्तमेकमत्यक्षं केवलं कीर्तितं जिनैः ॥ ४५६ ॥ " - ज्ञानार्णवे ।
1 ° ज्ञानं N. B विना ॥ 2 केवलं SVG JK | 3 त्रिंशतं LS FVBGJ XR || 4 स्याद्वादन्याय संकीर्ण P. ॥ 5 कीर्तितं बुधै: PM Nविना ॥
For Private & Personal Use Only
eeeeeee
योगशास्त्र| स्वोपशवृत्तौ सप्तमं परिशिष्टम्
।। १४७८ ।।
10
www.jainelibrary.org