SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ पृ० ११०५०९-पृ० १११ पं०१-- ॥१४७५॥ SHESHBHIBHEHRIEVETECHEIGRICCRHEHEHREGISTEHREEl " अजीवाः स्युर्धर्मा-ऽधर्म-विहाय:-काल-पुद्गलाः। जीवेन सह पञ्चापि द्रव्याण्यते निवेदिताः ॥ ४१ ॥ तत्र कालं विना सर्वे प्रदेशप्रचयात्मकाः । विना जीवमचिद्रपा अकर्तारश्च ते मताः ॥ ४२ ॥ कालं विनाऽस्तिकायाः स्युरमूर्ताः पुद्गलं विना । उत्पाद-विगम-ध्रौव्यात्मानः सर्वेऽपि ते पुनः ॥ ४३ ॥ पुद्गलाः म्युः स्पर्श-रस-गन्ध-वर्णस्वरूपिणः । तेऽणु-स्कन्धतया द्वेधा तत्राबद्धाः किलाणवः ।। ४४ ॥ प्रत्येकमेकद्रव्याणि धर्माधर्मो नभोऽपि च । अमूर्तानि निष्क्रियाणि स्थिराण्यपि च सर्वदा ॥ ४७ ।। एकजीवपरिमाणसंख्यातीतप्रदेशकौ । लोकाकाशमभिव्याप्य धर्माधर्मों व्यवस्थितौ ॥ ४८ ॥ स्वयं गन्तुं प्रवृत्तेषु जीवाजीवेषु सर्वतः । सहकारी भवेद्धर्मः पानीयमिव यादसाम् ।। ४९ ॥ जीवानां पुद्गलानां च प्रपन्नानां स्वयं स्थितिम् । अधर्मः सहकार्येष यथा च्छायाऽध्वयायिनाम् ॥ ५० ॥ सर्वग स्वप्रतिष्ठं स्यादाकाशमवकाशदम् । लोकालोको स्थितं व्याप्य तदनन्तप्रदेशभाक् ।। ५१ ॥ लोकाकाशप्रदेशस्था भिन्नाः कालाणवस्तु ये । भावानां परिवर्ताय मुख्यः कालः स उच्यते ॥ ५२ ।। ज्योतिःशास्त्रे यस्य मानमुच्यते समयादिकम् । स व्यावहारिकः कालः कालवेदिभिरामतः ॥ ५३ ॥ नव-जीर्णादिरूपेण यदमी भवनोदरे। पदार्थाः परिवर्तन्ते तत् कालस्यैव चेष्टितम् ।। ५४ ॥ वर्तमाना अतीतत्वं भाबिनो वर्तमानताम् । पदार्थाः प्रतिपद्यन्ते कालक्रीडाविडम्बिताः ॥ ५५ ॥" --योगशास्त्रस्वोपज्ञवृत्तौ । YCHOHDHDHINDHIBITCHEHEHEHETELETEVETCHEMEMENHEICHEHH Jain Education Inter For Private & Personal use only WEw.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy