Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥१४८२॥
योगशास्त्रस्वोपन
वृत्ती
सप्तमं परिशिष्टम्
॥१४८२॥
EXCYCHERRIERCHOICINEHENSNEHEREIGRIEVEHEHEHENSIGERVERTEREHER
जीवस्य हिंसा न भवेन्नित्यस्यापरिणामिनः । क्षणिकस्य स्वयं नाशात् कथं हिंसोपपद्यताम् ॥ ७ ॥ नित्यानित्ये ततो जीवे परिणामिनि युज्यते । हिंसा कायवियोगेन पीडातः पापकारणम् ॥ ८ ॥ केचिद्वदन्ति हन्तव्याः प्राणिनः प्राणघातिनः । हिंस्रस्यैकस्य घाते स्याद् रक्षणं भूयसां किल ॥९॥ तदयुक्तमशेषाणां हिंस्रत्वात् प्राणिनामिह । हन्तव्यता स्यात् तल्लाभमिच्छोर्मूलक्षतिः स्फुटा ॥ १० ॥ अहिंसासम्भवो धर्मः स हिंसातः कथं भवेत् । न तोयजानि पद्मानि जायन्ते जातवेदसः ॥ ११ ॥ पापहेतुर्वधः पापं कथ छेत्तमलं भवेत् । मृत्युहेतुः कालकूटं जीविताय न जायते ॥ १२ ॥ संसारमोचकास्वाहुर्दुःखिनां वध इष्यताम् । विनाशे दुःखिनां दुःखविनाशो जायते किल ॥ १३ ।। तदप्यसाम्प्रतं ते हि हता नरकगामिनः । अनन्तेषु नियोज्यन्ते दुःखेषु स्वरूपदुःखकाः ॥ १४ ॥ किञ्च, सौख्यवतां घाते धर्मः स्यात् पापवारणात् । इत्थं विचार्य हेयानि वचनानि कुतीर्थिनाम् ॥१५॥"-योग तुला-" जीववपुषोरभेदो येषामे(मैं)कान्तिको मतः शास्त्रे । कायविनाशे तेषां जीवविनाशः कथं वार्यः ॥ ६॥२०॥
आत्मशरीरविभेदं वदन्ति ये सर्वथा गतविवेकाः। कायवधे हन्त कथं तेषां संजायते हिंसा ॥ ६२१ ।। भिन्नाभिन्नस्य पुनः पीडा संपद्यतेतरां घोरा । देहवियोगे यस्मात्तस्मादनिवारिता हिंसा ॥ ६।२२ ॥ तत्पर्यायविनाशो दुःखोत्पत्तिः परश्च संक्लेशः । यः सा हिंसा सद्भिर्वयितव्या प्रयत्नेन ॥ ६।२३ ॥ प्राणी प्रमादकलितः प्राणव्यपरोपणं यदा धत्ते । सा हिंसाऽकथि दक्षैभववृक्षनिषेकजलधारा ।। ६।२४ ॥ म्रियतां मा मृत जीवः प्रमादबहुलस्य निश्चिता हिंसा । प्राणव्यपरोपेऽपि प्रमादहीनस्य सा नास्ति ।। ६।२५ ॥
BEHCHHEHCHCHCHHEHHHHHHHHHHHHHHHHHHHE
Jain Education
For Private & Personal Use Only
suww.jainelibrary.orga

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632