SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ ॥१४८२॥ योगशास्त्रस्वोपन वृत्ती सप्तमं परिशिष्टम् ॥१४८२॥ EXCYCHERRIERCHOICINEHENSNEHEREIGRIEVEHEHEHENSIGERVERTEREHER जीवस्य हिंसा न भवेन्नित्यस्यापरिणामिनः । क्षणिकस्य स्वयं नाशात् कथं हिंसोपपद्यताम् ॥ ७ ॥ नित्यानित्ये ततो जीवे परिणामिनि युज्यते । हिंसा कायवियोगेन पीडातः पापकारणम् ॥ ८ ॥ केचिद्वदन्ति हन्तव्याः प्राणिनः प्राणघातिनः । हिंस्रस्यैकस्य घाते स्याद् रक्षणं भूयसां किल ॥९॥ तदयुक्तमशेषाणां हिंस्रत्वात् प्राणिनामिह । हन्तव्यता स्यात् तल्लाभमिच्छोर्मूलक्षतिः स्फुटा ॥ १० ॥ अहिंसासम्भवो धर्मः स हिंसातः कथं भवेत् । न तोयजानि पद्मानि जायन्ते जातवेदसः ॥ ११ ॥ पापहेतुर्वधः पापं कथ छेत्तमलं भवेत् । मृत्युहेतुः कालकूटं जीविताय न जायते ॥ १२ ॥ संसारमोचकास्वाहुर्दुःखिनां वध इष्यताम् । विनाशे दुःखिनां दुःखविनाशो जायते किल ॥ १३ ।। तदप्यसाम्प्रतं ते हि हता नरकगामिनः । अनन्तेषु नियोज्यन्ते दुःखेषु स्वरूपदुःखकाः ॥ १४ ॥ किञ्च, सौख्यवतां घाते धर्मः स्यात् पापवारणात् । इत्थं विचार्य हेयानि वचनानि कुतीर्थिनाम् ॥१५॥"-योग तुला-" जीववपुषोरभेदो येषामे(मैं)कान्तिको मतः शास्त्रे । कायविनाशे तेषां जीवविनाशः कथं वार्यः ॥ ६॥२०॥ आत्मशरीरविभेदं वदन्ति ये सर्वथा गतविवेकाः। कायवधे हन्त कथं तेषां संजायते हिंसा ॥ ६२१ ।। भिन्नाभिन्नस्य पुनः पीडा संपद्यतेतरां घोरा । देहवियोगे यस्मात्तस्मादनिवारिता हिंसा ॥ ६।२२ ॥ तत्पर्यायविनाशो दुःखोत्पत्तिः परश्च संक्लेशः । यः सा हिंसा सद्भिर्वयितव्या प्रयत्नेन ॥ ६।२३ ॥ प्राणी प्रमादकलितः प्राणव्यपरोपणं यदा धत्ते । सा हिंसाऽकथि दक्षैभववृक्षनिषेकजलधारा ।। ६।२४ ॥ म्रियतां मा मृत जीवः प्रमादबहुलस्य निश्चिता हिंसा । प्राणव्यपरोपेऽपि प्रमादहीनस्य सा नास्ति ।। ६।२५ ॥ BEHCHHEHCHCHCHHEHHHHHHHHHHHHHHHHHHHE Jain Education For Private & Personal Use Only suww.jainelibrary.orga
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy