________________
॥१४८३॥
यो नियोऽपरिणामी तस्य न जीवस्य जायते हिंसा । न हि शक्यते निहन्तुं केनापि कदाचनाकाशम् ॥ ६।२६ ॥ क्षणिको यो व्ययमानः क्रियमाणा तस्य निष्फला हिंसा । चलमानः पवमानो न चाल्यमानः फलं कुरुते ॥ ६॥२७॥ यस्मान्नित्यानित्यः कायवियोगे निपीड्यते जीवः । तस्माद्युक्ता हिंसा प्रचुरकलिलबन्धवृद्धिकरी ।। ६।२८ ॥ केचिद्वदन्ति मूढा हन्तव्या जीवघातिनो जीवाः । परजीवरक्षणार्थ धर्मार्थ पापनाशार्थम् ॥ ६॥३३ ॥ युक्तं तन्नैवं सति हिंस्रत्वात् प्राणिनामशेषाणाम् । हिंसायाः कः शक्तो निषेधने जायमानायाः॥ ३४ ॥ धर्मोऽहिंसाहेतुर्हिसातो जायते कथं तथ्यः । न हि शालिः शालिभवः कोद्रवतो दृश्यते जातः ॥ ६॥३५॥ पापनिमित्तं हि वधः पापस्य विनाशने न भवति शक्तः । छेदनिमित्तं परशुः शक्नोति लतां न वर्द्धयितुम् ।। ६।३६ ॥ हिंस्राणां यदि घाते धर्मः संभवति विपुलफलदायी । सुखविघ्नस्तर्हि गतः परजीवविधातिनां घाते ॥ ६।३७ ।। यस्माद् गच्छन्ति गतिं निहता गुरुदुःखसंकटां हिंसाः । तस्माद दुःखं ददतः पापं न भवति कथं घोरम् ।। ६।३८ ।। दुःखवतां भवति बधे धर्मो नेदमपि युज्यते वक्तुम् । मरणे नरके दुःखं घोरतरं वार्यते केन ।। ६।३९ ।। सुखितानामपि घाते पापप्रतिषेवने परो धर्मः । जीवस्य जायमाने निषेधितुं शक्यते केन ॥६॥४०॥ -अमित० श्रावकाचारे। पृ० २९२ पं०८-- "पृष्टेनापि न वक्तव्यं वचो वैरम्य कारणम् । मर्मावित् कर्कशं शङ्कास्पदं हिंस्रमसूयकम् ॥ ३ ॥ धर्मध्वंसे क्रियालापे स्वसिद्धान्तार्थविप्लवे । अपृष्टेनापि शक्तेन वक्तव्यं तनिषेधितुम् ॥ ४ ॥ चार्वाकैः कौलि कैर्विप्रैः सौगतैः पाश्चरात्रिकः । असत्येनैव विक्रम्य जगदेतद्विडम्बितम् ।। ५ ।।
BHAHEIGHBHISHEHENGAGEMSHRISHISHISHEKSHRSHISHMISHISHEKE
॥१४८३॥
Jain Education Intel
For Private & Personal Use Only
$2
wjainelibrary.org