Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 593
________________ ॥१४९६ ॥ योगशास्त्रस्वोपक्ष सप्तम परिशिष्टम् ॥१४९६।। हिंसानन्द-मषानन्द-स्तेय-संरक्षणात्मकम् । षष्ठात्तु तद् गुणस्थानात् प्राक् पञ्चगुणभूमिकम् ॥ ४३ ।। ध्यानद्वयं विसृज्याघमसत् संसारकारणम् । यदोत्तरं द्वयं ध्यानं मुनिनाऽभ्य सिसिप्यते ॥ ५५ ॥ तदेदं परिकर्मेष्टं देशावस्थाद्यपाश्रयम् । बहिःसामग्र्यधीनं हि फलमत्र द्वयात्मकम् ॥ ५६ ॥ शून्यालये स्मशाने वा जरदुद्यानकेऽपि वा। सरित्पुलिनगिर्यग्रगहरे दमकोटरे ।। ५७ ॥ शुचावन्यतमे देशे चित्तहारिण्यपातके । नात्युप्णशिशिरे नापि प्रवृद्धतरमारुते ॥ ५८ ॥ विमुक्तवर्षसंबाधे सूक्ष्मजन्त्वनुपद्रुते । जलसम्पातनिर्मुक्ते मन्दमन्दनभस्वति ॥ ५९॥ पल्पकमासनं बवा सुनिविष्टो महीतले । सममृज्वायतं बिभ्रद् गात्रमस्तब्धवृत्तिकम् ॥ ६० ॥ स्वपर्य के करं वामं न्यस्योत्तानतलं पुनः । तस्योपरीतरं पाणिमपि विन्यस्य तत्समम् ॥ ६१ ॥ नात्युमिषन्न चात्यन्तं निमिषन् मन्दमुच्छसन् । दन्तैर्दन्ताग्रसन्धानपरो धीरो निरुद्धधीः ।। ६२ ॥ हृदि मूनि ललाटे वा नाभेरू परत्र वा । स्वाभ्यासवशतश्चित्तं निधायाध्यात्मविन्मुनिः ॥ ६३ ॥ ध्यायेद् द्रव्यादियाथात्म्यमागमार्थानुसारतः । परीषहोत्थिता बाधाः सहमानो निराकुलः ॥ ६४ ॥ प्राणायामेऽतितीने स्यादवशस्याकुलं मनः । व्याकुलस्य समाधानभङ्गान्न ध्यानसम्भवः ॥६५॥ अपि व्युत्सृष्टकायस्य समाधिप्रतिपत्तये । मन्दोच्छासनिमेषादिवृत्तेर्नास्ति निषेधनम् ॥ ६६ ॥ समावस्थितकायस्य स्यात् समाधानमङ्गिनः । दुःस्थिताङ्गस्य तद्भङ्गाद् भवेदाकुलता धियः ॥ ६७ ॥ ततो यथोक्तपल्यङ्कलक्षणासनमास्थितः । ध्यानाभ्यासं प्रकुर्वीत योगी व्याक्षेपमुत्सृजन् ॥ ६८ ।। Jain Education in Anal For Private & Personal Use Only Belww.jainelibrary.org

Loading...

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632