________________
॥१४९६ ॥
योगशास्त्रस्वोपक्ष
सप्तम परिशिष्टम्
॥१४९६।।
हिंसानन्द-मषानन्द-स्तेय-संरक्षणात्मकम् । षष्ठात्तु तद् गुणस्थानात् प्राक् पञ्चगुणभूमिकम् ॥ ४३ ।। ध्यानद्वयं विसृज्याघमसत् संसारकारणम् । यदोत्तरं द्वयं ध्यानं मुनिनाऽभ्य सिसिप्यते ॥ ५५ ॥ तदेदं परिकर्मेष्टं देशावस्थाद्यपाश्रयम् । बहिःसामग्र्यधीनं हि फलमत्र द्वयात्मकम् ॥ ५६ ॥ शून्यालये स्मशाने वा जरदुद्यानकेऽपि वा। सरित्पुलिनगिर्यग्रगहरे दमकोटरे ।। ५७ ॥ शुचावन्यतमे देशे चित्तहारिण्यपातके । नात्युप्णशिशिरे नापि प्रवृद्धतरमारुते ॥ ५८ ॥ विमुक्तवर्षसंबाधे सूक्ष्मजन्त्वनुपद्रुते । जलसम्पातनिर्मुक्ते मन्दमन्दनभस्वति ॥ ५९॥ पल्पकमासनं बवा सुनिविष्टो महीतले । सममृज्वायतं बिभ्रद् गात्रमस्तब्धवृत्तिकम् ॥ ६० ॥ स्वपर्य के करं वामं न्यस्योत्तानतलं पुनः । तस्योपरीतरं पाणिमपि विन्यस्य तत्समम् ॥ ६१ ॥ नात्युमिषन्न चात्यन्तं निमिषन् मन्दमुच्छसन् । दन्तैर्दन्ताग्रसन्धानपरो धीरो निरुद्धधीः ।। ६२ ॥ हृदि मूनि ललाटे वा नाभेरू परत्र वा । स्वाभ्यासवशतश्चित्तं निधायाध्यात्मविन्मुनिः ॥ ६३ ॥ ध्यायेद् द्रव्यादियाथात्म्यमागमार्थानुसारतः । परीषहोत्थिता बाधाः सहमानो निराकुलः ॥ ६४ ॥ प्राणायामेऽतितीने स्यादवशस्याकुलं मनः । व्याकुलस्य समाधानभङ्गान्न ध्यानसम्भवः ॥६५॥ अपि व्युत्सृष्टकायस्य समाधिप्रतिपत्तये । मन्दोच्छासनिमेषादिवृत्तेर्नास्ति निषेधनम् ॥ ६६ ॥ समावस्थितकायस्य स्यात् समाधानमङ्गिनः । दुःस्थिताङ्गस्य तद्भङ्गाद् भवेदाकुलता धियः ॥ ६७ ॥ ततो यथोक्तपल्यङ्कलक्षणासनमास्थितः । ध्यानाभ्यासं प्रकुर्वीत योगी व्याक्षेपमुत्सृजन् ॥ ६८ ।।
Jain Education in
Anal
For Private & Personal Use Only
Belww.jainelibrary.org