________________
॥१४९७॥
REICHERSHEHRIRRIGHESTERIEWEIGHBHEHRELEHEHETCHETE
पल्यङ्क इव दिध्यासोः कायोत्सर्गोऽपि सम्मतः । समप्रयुक्तसर्वाङ्गो द्वात्रिंशद्दोषवर्जितः ॥ ६९ ॥ तदवस्थाद्वयस्यैव प्राधान्यं ध्यायतो यतेः । प्रायस्तत्रापि पल्यङ्कमामनन्ति सुखासनम् ॥ ७२ ॥ बाहुल्यापेक्षया तस्मादवस्थाद्वयसंगरः । सक्तानां तूपसर्गाद्यैस्तद्वैचित्र्यं न दुष्यति ।। ७४ ॥ वसतोऽस्य जनाकोणे विषयानभिपश्यतः । बाहुल्यादिन्द्रियार्थानां जातु व्यग्रीभवेन्मनः ।। ७८ ॥ ततो विविक्तशायित्वं वने वासश्च योगिनाम् । इति साधारणो मार्गों जिनस्थविरकल्पयोः ॥ ७९ ॥ इत्यमुष्यां व्यवस्थायां सत्यां धीरास्तु केचन । विहरन्ति जनाकीर्णे शून्ये च समदर्शिनः ॥ ८ ॥ प्रोक्ता ध्यातुरवस्थेयमिदानीं तस्य लक्षणम् । ध्येयं ध्यानं फलं चेति वाच्यमेतच्चतुष्टयम् ॥ ८१ ॥ स एवंलक्षणो ध्येयः परमात्मा परः पुमान् । परमेष्ठी परं तत्त्वं परमज्योतिरक्षरम् ।। १३० ॥ साधारणमिदं ध्येयं ध्यानयोधर्म्य-शुक्लयोः। विशुद्धि-स्वामिभेदात्तु तद्विशेषोऽवधार्यताम् ॥ १३१ ॥ प्रशस्तं प्रणिधानं यत् स्थिरमेकत्र वस्तुनि । तद् ध्यानमुक्तं मुक्त्यङ्गं धयं शुक्लमिति द्विधा ॥ १३२ ।। तत्रानपेतं यद धर्मात् तद् ध्यानं धर्म्यमिष्यते । धर्मो हि वस्तुयाथात्म्यमुत्पादादित्रयात्मकम् ॥ १३३ ॥ तदाज्ञा-ऽपाय-संस्थान-विपाकविचयात्मकम् । चतुर्विकल्पमाम्नातं ध्यानमाम्नायवेदिभिः ।। १३४ ॥ तत्राज्ञेत्यागमः सूक्ष्मविषयः प्रणिगद्यते । दृश्यानुमेयवयं हि श्रद्धेयांशे गतिः श्रुतेः ॥ १३५॥ जैनी प्रमाणयन्नाज्ञां योगी योगविदां वर[:] । ध्यायेद् धर्मास्तिकायादीन् भावान् सूक्ष्मान् यथागमम् ॥ १४०॥ आज्ञाविचय एष स्यादपायविचयः पुनः । तापत्रयादिजन्माब्धिगतापायविचिन्तनम् ॥ १४१॥
॥१४९७॥
Jain Education Int
For Private & Personal Use Only
ww.jainelibrary.org