SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ॥। १४९८ ॥ Jain Education Inter 8888888888888 तदपायप्रतीकारचित्रोपायानुचिन्तनम् । अत्रैवान्तर्गतं ध्येयमनुप्रेक्षादिलक्षणम् ॥ १४२ ॥ शुभाशुभविभक्तानां कर्मणां परिपाकतः । भवावर्तस्य वैचित्र्यमभिसन्दधतो मुनेः ॥ १४३ ॥ विपाकविचयं धर्म्यमामनन्ति कृतागमाः । विपाकश्च द्विधाम्नातः कर्मणामाप्तसूक्तिषु ॥ १४४ ॥ यथाकालमुपायाच्च फलपक्तिर्वनस्पतेः । यथा तथैव कर्मापि फलं दत्ते शुभाशुभः ॥ १४५ ॥ संस्थानविचयं प्राहुर्लोकाकारानुचिन्तनम् । तदन्तर्भूतजीवादितत्त्वान्वीक्षणलक्षितम् ॥ १४८ ॥ तदप्रमत्तताम्बं स्थितिमान्तर्मुहूर्तिकीम् । दधानमप्रमत्तेषु परां कोटिमधिष्ठितम् ॥ १५५ ॥ सद्दृष्टिषु यथाम्नायं शेषेष्वपि कृत स्थिति । प्रकृष्टशुद्धिमल्लेश्यात्रयोपोद्बलबृंहितम् ॥ १५६ ॥ क्षायोपशमिकं भावं स्वसात्कृत्य विजृम्भितम् । महोदर्क महाप्रज्ञैर्महर्षिभिरुपासितम् ॥ १५७ ॥ वस्तुधर्मानुयायित्वात् प्राप्तान्वर्थनिरुक्तिकम् । धर्म्यं ध्यानमनुध्येयं यथोक्तध्येयविस्तरम् ॥ १५८ ॥ ध्यानेऽप्युपरते धीमानभीक्ष्णं भावयेन्मुनिः । सानुप्रेक्षाः शुभोदकी भवाभावाय भावनाः ॥ इत्युक्तलक्षणं धर्म्यं मगधाधीश निश्चिनु । शुक्लध्यानमितो वक्ष्ये साक्षान्मुक्त्यङ्गमङ्गनाम् ॥ १६५ ॥ शुक्लं परमशुक्लं चेत्याम्नाये तद् द्विधोदितम् । छद्मस्थस्वामिकं पूर्वं परं केवलिनां मतम् ॥ १६७ ॥ पृथक्त्वेन वितर्कस्य वीचारो यत्र तद् विदुः । सवितर्क सवीचारं पृथक्त्वादिपदाह्वयम् ॥ १७० ॥ तुलना - " धर्मध्याने भवेद् भावः क्षायोपशमिकादिकः । लेश्याः क्रमविशुद्धाः स्युः पीत-पद्म-सिताः पुनः ॥ " १६४ ॥ For Private & Personal Use Only इति योगशास्त्रे १० १६ । पृ० ११४४ ।। aaaaaaaadeeeeeeeeeeeeeedaalaw योगशास्त्र स्वोपज्ञ वृत्तौ सप्तमं परिशिष्टम् ।। १४९८ ।। 10 jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy