________________
॥ १४९९ ॥
Jain Education Inte
'88888888
dadaraddadedes
एकत्वेन वितर्कस्य स्याद् यत्रात्रिचरिष्णुता । सवितर्कमवीचारमेत्यादिपदाभिधम् ॥ १७१ ॥
पृथक्त्वं विद्धि नानात्वं वितर्कः श्रुतमुच्यते । अर्थ-व्यञ्जन- योगानां वीचारः संक्रमो मतः ॥ १७२ ॥ अर्थादर्थान्तरं गच्छन् व्यञ्जनाद् व्यञ्जनान्तरम् । योगाद् योगान्तरं गच्छन् ध्यायतीदं वशी मुनिः ॥ १७३ ॥ त्रियोगः पूर्वविद् यस्माद् ध्यायत्येतन्मुनीश्वरः । सवितर्क सवीचारमतः स्याच्छुक्कमादिमम् ॥ ९७४ ॥ ध्येयमस्य श्रुतस्कन्धवार्धर्वार्थविस्तरः । फलं स्यान्मोहनीयस्य प्रक्षयः प्रशमोऽपि वा ॥ १७५ ॥ इदमत्र तु तात्पर्यं श्रुतस्कन्धमहार्णवात् । अर्थमेकं समादाय ध्यायन्नर्थान्तरं व्रजेत् ॥ १७६ ॥ शब्दाच्छब्दान्तरं यायाद् योगं योगान्तरादपि । सवीचारमिदं तस्मात् सवितर्क च लक्ष्यते ॥ १७७ ॥ श्रुतस्कन्धमहासिन्धुमवगाह्य महामुनिः । ध्यायेत् पृथक्त्वस त्तर्कवीचारं ध्यानमग्रिमम् ॥ १८२ ॥ स्नातकः कर्मवैकल्यात् कैवल्यं पदमापिवान् । स्वामी परमशुक्लस्य द्विधा भेदमुपेयुषः ॥ १८८ ॥ सूक्ष्मीकृत्य पुनः काययोगं च तदुपाश्रयम् । ध्यायेत् सूक्ष्मक्रियं ध्यानं प्रतिपातपराङ्मुखम् ॥ १९५ ॥ ततो निरुद्धयोगः सन्नयोगी विगतास्रवः । समुच्छिन्नक्रियं ध्यानमनिवर्ति तदा भजेत् ।। १९६ ॥ अन्तर्मुहूर्तमातन्वन् तद् ध्यानमतिनिर्मलम् । विधुताशेषकर्मशो जिनो निर्वात्यनन्तरम् ॥ १९७ ॥ ध्यानस्यैव तपोयोगाः शेषाः परिकरा मताः । ध्यानाभ्यासे ततो यत्नः शश्वत् कार्यो मुमुक्षुभिः ॥ २१५ ॥ दयोगवादी यः सोऽनुयोज्यः समाहितैः । योगः कः किं समाधानं प्राणायामश्च कीदृशः ॥ २२३ ॥ का धारणा किमाध्यानं किं ध्येयं कीदृशी स्मृतिः । किं फलं कानि बीजानि प्रत्याहारोऽस्य कीदृशः ॥ २२४ ॥
For Private & Personal Use Only
aaaaaareece
10
।। १४९९ ।।
jainelibrary.org