Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 594
________________ ॥१४९७॥ REICHERSHEHRIRRIGHESTERIEWEIGHBHEHRELEHEHETCHETE पल्यङ्क इव दिध्यासोः कायोत्सर्गोऽपि सम्मतः । समप्रयुक्तसर्वाङ्गो द्वात्रिंशद्दोषवर्जितः ॥ ६९ ॥ तदवस्थाद्वयस्यैव प्राधान्यं ध्यायतो यतेः । प्रायस्तत्रापि पल्यङ्कमामनन्ति सुखासनम् ॥ ७२ ॥ बाहुल्यापेक्षया तस्मादवस्थाद्वयसंगरः । सक्तानां तूपसर्गाद्यैस्तद्वैचित्र्यं न दुष्यति ।। ७४ ॥ वसतोऽस्य जनाकोणे विषयानभिपश्यतः । बाहुल्यादिन्द्रियार्थानां जातु व्यग्रीभवेन्मनः ।। ७८ ॥ ततो विविक्तशायित्वं वने वासश्च योगिनाम् । इति साधारणो मार्गों जिनस्थविरकल्पयोः ॥ ७९ ॥ इत्यमुष्यां व्यवस्थायां सत्यां धीरास्तु केचन । विहरन्ति जनाकीर्णे शून्ये च समदर्शिनः ॥ ८ ॥ प्रोक्ता ध्यातुरवस्थेयमिदानीं तस्य लक्षणम् । ध्येयं ध्यानं फलं चेति वाच्यमेतच्चतुष्टयम् ॥ ८१ ॥ स एवंलक्षणो ध्येयः परमात्मा परः पुमान् । परमेष्ठी परं तत्त्वं परमज्योतिरक्षरम् ।। १३० ॥ साधारणमिदं ध्येयं ध्यानयोधर्म्य-शुक्लयोः। विशुद्धि-स्वामिभेदात्तु तद्विशेषोऽवधार्यताम् ॥ १३१ ॥ प्रशस्तं प्रणिधानं यत् स्थिरमेकत्र वस्तुनि । तद् ध्यानमुक्तं मुक्त्यङ्गं धयं शुक्लमिति द्विधा ॥ १३२ ।। तत्रानपेतं यद धर्मात् तद् ध्यानं धर्म्यमिष्यते । धर्मो हि वस्तुयाथात्म्यमुत्पादादित्रयात्मकम् ॥ १३३ ॥ तदाज्ञा-ऽपाय-संस्थान-विपाकविचयात्मकम् । चतुर्विकल्पमाम्नातं ध्यानमाम्नायवेदिभिः ।। १३४ ॥ तत्राज्ञेत्यागमः सूक्ष्मविषयः प्रणिगद्यते । दृश्यानुमेयवयं हि श्रद्धेयांशे गतिः श्रुतेः ॥ १३५॥ जैनी प्रमाणयन्नाज्ञां योगी योगविदां वर[:] । ध्यायेद् धर्मास्तिकायादीन् भावान् सूक्ष्मान् यथागमम् ॥ १४०॥ आज्ञाविचय एष स्यादपायविचयः पुनः । तापत्रयादिजन्माब्धिगतापायविचिन्तनम् ॥ १४१॥ ॥१४९७॥ Jain Education Int For Private & Personal Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632