Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥१४९४॥
योगशास्त्रस्वोपन
वृत्ती
सप्तमं परिशिष्टम्
अनन्त-दर्शन-ज्ञान-सुख-वीरलङ्कतम् । प्रातिहाष्टिकोपेतं नरामरनमस्कृतम् ॥५०॥ शुद्धस्फटिकसंकाशशरीरमुरुतेजसम् । घातिकर्मक्षयोत्पन्ननवकेवललब्धिकम् ॥ ५१॥ विचित्रातिशयाधारं लब्धकल्याणपञ्चकम् । स्थिरधीः साधुरर्हन्तं ध्यायत्येकाग्रमानसः ॥ ५२ ॥ पिण्डस्थो ध्यायते यत्र जिनेन्द्रो हृतकल्मषः । तत् पिण्डपञ्चकध्वंसि पिण्डस्थं ध्यानमिष्यते ॥ ५३ ॥ प्रतिमायां समारोप्य स्वरूपं परमेष्ठिनः । ध्यायतः शुद्धचित्तस्य रूपस्थं ध्यानमिष्यते ॥ ५४ ॥ सिद्धरूपं विमोक्षाय निरस्ताशेषकल्मषम् । जिनरूपमिव ध्येयं स्फटिकप्रतिबिम्बितम् ॥ ५५ ॥ अरूपं ध्यायति ध्यानं परं संवेदनात्मकम् । सिद्धरूपस्य लाभाय नीरूपस्य निरेनसः ॥ ५६ ॥ बहिरन्तः परश्चेति त्रेधात्मा परिकीर्तितः । प्रथम द्वितीयं हित्वा परात्मानं विचिन्तयेत् ॥ ५७ ॥ बहिरात्माऽत्मविभ्रान्तिः शरीरे मुग्धचेतसः । या चेतस्यात्मविभ्रान्तिः सोऽन्तरात्माऽभिधीयते ॥ ५८ ॥ श्यामो गौरः कृशः स्थूलः काणः कुण्ठोऽबलो बली । वनिता पुरुषः षण्ढो विरूपो रूपवानहम् ॥ ५९॥ जातदेहात्मविभ्रान्तेरेषा भवति कल्पना । विवेकं पश्यतः पुंसो न पुनर्देहदहिनोः ॥ ६ ॥ शत्र-मित्र-पितृ-भ्रातृ-मातृ-कान्ता-सुतादयः । देह सम्बन्धतः सन्ति न जीवस्य निसर्गजाः ॥ ६१ ॥ श्वास्तिर्यङ नरो देवो भवामीति विकल्पना । श्वाभ्र-तिर्यङ्-नृ-देवाङ्गसंगतो न स्वभावतः ॥ ६२ ॥
KERHIKMEREMEMBRIHHEICHETERAGHOREHSCHCHICHCHEMERCE
१ तुला-योगशास्त्रे ९७ ॥
२ तुला-योगशास्त्रे ११॥ ३ तुला-योगशास्त्रे १२६-८।।
For Private & Personal Use Only
Jain Education Inte
3w.jainelibrary.org

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632