SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ॥१४९४॥ योगशास्त्रस्वोपन वृत्ती सप्तमं परिशिष्टम् अनन्त-दर्शन-ज्ञान-सुख-वीरलङ्कतम् । प्रातिहाष्टिकोपेतं नरामरनमस्कृतम् ॥५०॥ शुद्धस्फटिकसंकाशशरीरमुरुतेजसम् । घातिकर्मक्षयोत्पन्ननवकेवललब्धिकम् ॥ ५१॥ विचित्रातिशयाधारं लब्धकल्याणपञ्चकम् । स्थिरधीः साधुरर्हन्तं ध्यायत्येकाग्रमानसः ॥ ५२ ॥ पिण्डस्थो ध्यायते यत्र जिनेन्द्रो हृतकल्मषः । तत् पिण्डपञ्चकध्वंसि पिण्डस्थं ध्यानमिष्यते ॥ ५३ ॥ प्रतिमायां समारोप्य स्वरूपं परमेष्ठिनः । ध्यायतः शुद्धचित्तस्य रूपस्थं ध्यानमिष्यते ॥ ५४ ॥ सिद्धरूपं विमोक्षाय निरस्ताशेषकल्मषम् । जिनरूपमिव ध्येयं स्फटिकप्रतिबिम्बितम् ॥ ५५ ॥ अरूपं ध्यायति ध्यानं परं संवेदनात्मकम् । सिद्धरूपस्य लाभाय नीरूपस्य निरेनसः ॥ ५६ ॥ बहिरन्तः परश्चेति त्रेधात्मा परिकीर्तितः । प्रथम द्वितीयं हित्वा परात्मानं विचिन्तयेत् ॥ ५७ ॥ बहिरात्माऽत्मविभ्रान्तिः शरीरे मुग्धचेतसः । या चेतस्यात्मविभ्रान्तिः सोऽन्तरात्माऽभिधीयते ॥ ५८ ॥ श्यामो गौरः कृशः स्थूलः काणः कुण्ठोऽबलो बली । वनिता पुरुषः षण्ढो विरूपो रूपवानहम् ॥ ५९॥ जातदेहात्मविभ्रान्तेरेषा भवति कल्पना । विवेकं पश्यतः पुंसो न पुनर्देहदहिनोः ॥ ६ ॥ शत्र-मित्र-पितृ-भ्रातृ-मातृ-कान्ता-सुतादयः । देह सम्बन्धतः सन्ति न जीवस्य निसर्गजाः ॥ ६१ ॥ श्वास्तिर्यङ नरो देवो भवामीति विकल्पना । श्वाभ्र-तिर्यङ्-नृ-देवाङ्गसंगतो न स्वभावतः ॥ ६२ ॥ KERHIKMEREMEMBRIHHEICHETERAGHOREHSCHCHICHCHEMERCE १ तुला-योगशास्त्रे ९७ ॥ २ तुला-योगशास्त्रे ११॥ ३ तुला-योगशास्त्रे १२६-८।। For Private & Personal Use Only Jain Education Inte 3w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy